पृष्ठम्:वादनक्षत्रमाला.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० २ कर्तु प्रभवन्त्येव । अत एव विरूपाक्षयोगिना गगनमार्गे दिग्गजानानीय द्वौ द्वौ दिग्गजौ परस्परं योधयन्तं तेन स्वीयमैश्वर्य लोकातिशायीति दर्पभरोष्मलं सहस्राक्षं दृष्टा तद्दर्पमपनीय शिवयोगे रुच्युत्पादनेन तमनुग्रहीतुं द्वै शैली गजवत् परस्परोपसर्पणेन योधितै; तदत्यन्तमाश्चर्य दृष्टा गगनतलाद्वरुह्य प्रणिपत्य कथमिदमाश्चर्यं भवता कारि तम् ? इति पृष्टवन्तं सहस्राक्षं प्रति तव हस्तौ त्वदिच्छया पूर्वोत्तरमीमांसा प्रवतत इति ततो विरज्य ततः प्रभृति निरन्तरशिवयोगाभ्यासे एव निरतोऽभूत्–इति कथामाभियुक्ता वर्णयन्ति । एवमपि ना तिव्याप्तिः, शिवयोगिनां चिच्छक्तिविकासेन प्रपञ्चं चशरीरकत्वाङ्गीकारात् । अत एव “ सर्व खल्विदं ब्रह्म ' सर्वो वै रुद्रः' इत्यादिषु स्वत:सिद्धतया शिवस्येव “ यद्र ह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते' इति ब्रह्मवि मिदं भवेयमिति' इत्यादिश्रुतिषु विद्यासाधनसहकारिकर्म