पृष्ठम्:वादनक्षत्रमाला.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्यपदस्वारस्यानुरोधात् सिंहशब्दस्येव गौणवृत्तेरेव कल्पनी यत्वेन सा तदुपस्थिति: गौणवृत्तिमुखभूतसादृश्यप्रतियोग्यु स्थितित्वेन उपयुज्यते-इत्येवाङ्गीकर्तव्यम् । तत्र यदुक्तं साध्य गौण्यतिछिष्टति, तन्न, इह सिद्धसादृश्यमूलक गौणवृत्त्यपेक्षया तस्या एव ज्यायस्त्वात् । तथा हि ---- पूवात्तरमामासा तु कश्चिदनुष्ठाने विशेषो लभ्यते । द्वितीयपक्षे तु मासा न्निहोत्रहोमस्य अनुपदिष्टतिकर्तव्यताकस्य नैयमिकान्निहो. त्रवत्कर्तव्यतापरेण नाम्रा नैयमिकाग्निहोत्रधर्मातिदेशकेन आ काङ्कितेतिकर्तव्यतालाभात् अनुष्ठानविशेषो लभ्यते इति ध्यसादृश्यमूलकगौणप्रसङ्गम्य इष्टापादनरूपत्वात त्वदीय हेतोरप्रयोजकत्वताद्वस्थ्यम , मदीयहेतोश्च न प्रतिकूल तस्मान् स्सा ह त्वेऽपि प्रसिद्धार्थ नाम न आख्यातपरतन्त्रम् । किं तु तदेव नामपरतन्त्रम् , दशपूर्णमाससफलवाक्य तथा दशनात् । तथा।