पृष्ठम्:वादनक्षत्रमाला.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नायत्वात् श्रत्या ब्रह्मवित् यथाभूतयावदूणकलापविशिष्टं ब्रह्म अनुसं धत्ते तथाभूततावद्विशिष्टं तत्प्राप्तोति इत्युपदिष्टत्वेन प्रति पतिमत: स्वविशिष्टब्रह्मानुसंधानेऽस्मिन् अन्तर्यामिणि वा प्राकृतदेहतदुणादिप्रवेशे तथाभूतस्वविशिष्टब्रह्मप्राप्तिप्रसक्त्या मुक्त्यभावापत्ते: ; * एक आत्मनः शरीरे भावात्' इत्याधि करणोक्तन्यायेन ब्रह्मणि तत्तद्विद्योपसंहार्यगुणकलापादिवि शिष्टे प्रजापतिविद्योपदिष्टमुक्तिप्राप्यापहतपाप्मत्वादिमात्रवि शिष्टस्यैव प्रत्यगात्मनः तन्नियम्यतया अनुमंधानेषु निवेश । अत वादनक्षत्रमाला । तुश्च नासिद्ध इति । १७१ शरणागतिरूपाया: प्रपत्तेः मुक्तिरेव फलं न भवति, भीताः सुरा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदा शिवम्' इत्यादिवचनैः कालकूटाद्यापन्निवारणार्थाया अपि तस्या: प्रतिपादनात् । मुक्तिफलकत्वमपि तस्या: दहराद्युपा सनाजन्यमाक्षात्कारद्वारा; निरन्तराचिन्तानुवृत्तेः साक्षात्का रजनकत्वम्य लोके दर्शनात् । । ततस्तु पश्यते निष्कलं ध्या यमान:' इति शास्रदर्शनाञ्च । आफलोदयमावर्तनीयानां द हराद्युपासनानामिव शिवमेव विश्वस्य तदाधाररूपतया स -