पृष्ठम्:वादनक्षत्रमाला.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभवान् पूर्वोत्तरमीमांसा कान्निहोत्रहोमस्य 'सायं जुहोति' 'प्रातर्जुहोति' इति तत्प्रकरणाम्रातवाक्याभ्यां मायंप्रात:कालयोरभ्यासस्य दितत्वेन सायंहोमाभिन्ने प्रातहॉमेऽपि अग्निदेवत्यत्व आर्थवादिकस्य अग्रिहोत्रशब्दस्य अन्यदीयनाम्र एव सत:– दर्शपूर्णमासयोरपामुत्सेके ' एष वै दर्शपूर्णमासयोरवभृथः' इत्यत्र अवभृथशब्दस्येव, प्रस्तरा दिषु यजमानशब्दस्येव च औपचारिकत्वेन तासु वृत्त्यर्थ शक्तिकल्पनानपक्षणात् । द्वितीयपक्षे अमुख्या वृत्ति: ल क्षणा गौणी वा, नाद्यः, तन्मुख्यार्थभूतनैयमिकानि होत्रसंबन्धानवगमात् । सत्रमध्ये कर्तव्यस्य मासान्नि होत्रस्य ' न ददाति ' ' न जुहोति ' ' न पचति' इति सोमप्रयोगमध्ये पर्युदस्तेन तेन एककालत्वसंबन्ध म्याप्यभावात् । गौण्यपि प्रसिद्धसाश्यमूला न संभवति, मासामिहोत्रे तन्न मह होमान्तरव्यावृत्तम्य अनत्यन्त बहिरङ्गम्य कस्यचित्सादृश्यस्य अप्रसिद्धत्वात् । तस्मात् लक्षणातो जघन्यत्वेन मीमांमकैरभ्युपगतासु गौणवृतिष्वपि कल्प्यसादश्यमूलत्वेन अतिक्रुिष्टगौणवृत्तिरभ्युपगन्तव्या । न च नैयमिकाग्निहोत्राभेदाङ्गीकारण मुख्यवृत्तिसमर्थनसंभवे तदभ्युपगमो युक्तः । प्रायणीयनाम्रस्तु यथा प्रयन्ति प्रार