पृष्ठम्:वादनक्षत्रमाला.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । भूतसूक्ष्मतदाश्रितदेहवत् गौरादिगुणतदीयगौरत्वादिजातीना मपि जीवाश्रितत्वोपपत्ते : मदीयहेतुसिच्द्यर्थप्रमाणे त्वदुक्त बाधकानवतारात् मदीयो हेतुनौसिद्धः, त्वदीय एवासिद्ध इति सिद्धं जीवस्य गौरादिशब्दवाच्यत्वम । तत एव तद्वारा अन्तर्यामिणोऽपि तद्वाच्यत्वमिति । इति भ्रममूलत्वशङ्कानिरासार्थजीवान्तर्यामि शक्तिवादः ।। १० ।। -- १६७ --