पृष्ठम्:वादनक्षत्रमाला.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ पवत्तरमीमांसा च देहपोषणशोषणयोः जीवान्वयतळद्यतिरेकौ प्रदर्शयन्ती उदाहृतश्रुति: देहशोषस्य जीवोत्क्रमणप्रयुक्तत्वं प्रतिपाद यत्येव । न तु अाथसमाजवशप्राप्तमतदानन्तयमात्र प्र तिपादयति; अन्वयव्यतिरेकप्रदर्शनस्य तत्प्रयुक्तत्वप्रति. पत्त्यर्थत्वात् । तस्मात् उदाहृतश्रुति: जीवोत्क्रमणसमये भूत सूक्ष्मोत्क्रमणश्रुतिं च अनुरुध्य देहोपादानभूतसूक्ष्माणां तद्दारा देहस्य च जीवाश्रितत्वमभ्युपगम्य * गौरोऽहम्' इत्यादिवि. वेकिव्यवहाराणां प्रमात्वोपपादनमेव युक्तम्, औत्सर्गिक प्रमात्वनिर्वाहसंभवे भ्रमत्वकल्पनायोगात् । न च एवं वि. वेकिव्यवहार एव नास्तीति विवदितुं शक्यम् , * पुरुषं कृष्णपिङ्गलम्' इत्यादिवैदिकव्यवहाराणाम् , ' अर्धपुंलक्षणं राणां च वेदेषु पुराणेषु च गौरकृष्णलोहितादीनां प्र = बन्धूणामृषीश्वराणां च परमेश्वरादिदेहतादात्म्यैक्यभ्रममू लोऽयं व्यवहार इति वा तदीयस्यैव देहात्मैकत्वभ्रमस्य अ नुवादरूपोऽयमिति वक्तुमशक्यत्वात् तन्न्यायेन विवेकिना मपि 'गौरोऽहम्' इत्यादिव्यवहाराणां तन्मूलप्रतीतीनां च संभावितानां प्रतिषेढुमशक्यत्वात् । तस्मात् देहोपादान