पृष्ठम्:वादनक्षत्रमाला.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रममूलत्वशङ्कानिरासार्थजीवान्त गौररादिशब्दानां जीवे योगेन लक्षणया रूढिशक्त्या वा वृत्तिनङ्गीकरणीया; दूरेऽन्तर्यामिणि ; 'गौरोऽहम्' इत्या दिव्यवहाराणां शुक्तिरजतव्यवहारवत् भ्रममूलत्वात्- इति शङ्कनिरासेन तत्र तेषां शक्ति व्यवस्थापयितुं कथान्तरं प्र स्तूयत -- अत्र आदित: कक्ष्यात्रयं पूर्ववत् ।। अथ चतुर्थी ।

  • गौरोऽहम' इत्यादिप्रतीति: नात्मनि गौरत्वादिवैशिष्टय

विषया; किंतु गौरादिगुणविशिष्ट शरीर एव आत्मत्वारोप रूपा; स्थूलोऽहम्, गौरोऽहम् , ब्राह्मणोऽहम-इत्यादिप्रकारेण स्वशरीरं पश्यन्नेव हि पुरुष: तदेव अहमर्थमात्मानं मन्यते । उक्तप्रतीतेः आत्मविशेष्यकत्वेऽपि रक्तस्फटिकरीत्या त स्मिन्सन्निहितशरीरगतगौरगुणाद्यारोपरूपैव सा । अतः त्वद्धे तुरसिद्धः, मद्धेतुश्च नासिद्धः– इति ।