पृष्ठम्:वादनक्षत्रमाला.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहृतप्रतीतेः औत्सर्गिक अमात्वे मदुक्तरीत्या निवडढुं शक्ये भ्रमत्वं न कल्पयितुमुचितम् । अतो विपरीते हेत्वो : अथ षष्ठा --- दहात्मभ्रमस्य लोकायतिकातिरिक्तसकलवादिसंप्रतिपन्नत्वात् । अत: हेत्व देहातिरिक्तमात्मानमवगच्छताम् इयं प्रतीति: प्रमाणत्वेन उपपादनाया ; न भ्रमत्व नतव्या ; बाधकाभावात् । अत मदुक्तरीत्यैव हेत्वोः सिद्धयसिद्धी– इति । अथाष्टमी असिद्धो बाधकाभाव: ; शरीरस्य आत्मानाश्रितत्वेन शरीरगतस्य गौरगुणादेः शरीरद्वारेण आत्माश्रितत्वानुप पत्तेः । शरीरं हि स्वावयवानेवाश्रित्य तिष्ठति । तत्प्रविष्ट पुरुषः गृह प्रावष्ट इव तत्र सुखदुःख्वाद् अनुभवन् अस्ति । तस्मात् शास्रतो देहाहमर्थविवेकवतामपि साक्षात्काररूपः