पृष्ठम्:वादनक्षत्रमाला.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । पृथम । यद्यपि शब्दत एव विशिष्टवैशिष्टयं बुध्यताम् इति तात्पर्येण प्रयुक्ते वाक्ये मत्वर्थयप्रत्ययेन विशिष्टवैशि ष्टयविषयत्वमपि क्लप्तम् , तथापि विषयलाघवात् मदुक्त देहगुणगतजात्याश्रयत्वकल्पनादपि तत्कल्पनागौरवं न दोषः । क्लप्तत्वेन लघुत्वेन च गौरोऽहम्-इत्युपचारत। सिद्धौ तन्निर्वाहार्थकल्पनागौरवम्य फलमुख्वत्वात् । बस्तुतम् नाव कल्पना काचिदन्या प्रवर्तत; किंतु क्लप्तत्वलघुशारीर वानुसंधानरूपलाघवतकनुगृहीतं गौरोऽहमिति व्यवहार मूलं प्रत्यक्षमेव आत्मनः परम्परया गुणगतजात्याश्रयतायां गतजात्याश्रयतायाम • नीलो घट: ' इत्यादिप्रतीतिव्यवहारौ उक्तरीत्यैव प्रतिबोधनीय: । अव्यतिरेकवार्तिकप्रदर्शनाञ्च अव्यतिरेकात्स्मिद्वमिति चेन्न द्रष्टा व्यतिरेक: ' इति शब्द वार्तिकं हि गुणवचनेभ्यो मतुब्लापानुशासनस्य वैय' यशङ्का मुद्भाव्य तत्परिहारार्थम ; गणगुणिनोरभेदभ्रान्तिरत्र शङ्काबी जम् । अभेद्भ्रान्तेश्च नीलो घटः’ इत्यादिव्यवहार एव मूलम् ।