पृष्ठम्:वादनक्षत्रमाला.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगलक्षणाशङ्कानिरासार्थजीवान्तर्यामि शक्तिवादः । गुणे नीलादिशब्दानां शक्ति गुणिनि लक्षणाम् । वदन्ति केचिदनयोरिच्छन्ति व्यत्ययं परे । गुणे गुणिनि चास्माभिस्तेषां शक्ति: समर्थिता । सा शक्तिरकानेका चेत्येतदप्यत्र चिन्तितम । उभाभ्यामन्वयोऽस्माभिरारुण्यस्य समर्थितः । शक्तिमेव द्रढीकर्तुमुभयोरुपजीव्यताम् । समर्थितोऽत्रारुण्यस्य क्रयद्रव्योभयान्वय: ।। तथैव तावत्पर्यन्तं सा प्रधावेत्क्रमादिति । तत्र यदि गौरोऽहम् इत्यादिव्यवहारः मत्वर्थीयप्रत्ययोत्प