पृष्ठम्:वादनक्षत्रमाला.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । १ ४७ य । एकाम' * पश्च' इत्यनयो: कारकविभक्तित्वाश्रयणेन क्रियासंबन्धः त्यक्त: । तथा हि- तत्र यदि एकां गां नदान इति संबन्धः क्रियते, तदा • गौश्चाश्वश्चाश्वतरश्च गर्दभश्राजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाच माषाश्च तस्य द्वादशशतं दक्षिणा' इति ज्योतिष्टोमदक्षिणात्वेन बहुषु गवा दिषु समुचित्य देयत्वेन प्रामेषु अनियमेन यां कांचिदेकामेव दक्षिणां दद्यान-इत्यर्थः स्यान् ; तदा गोज्ञाठदम्यानियतप्राप णीयगवादिसर्वद्रव्यलक्षणा भवेन , पक्ष प्राप्ताया: गो: अनु वादः संभवेत् । अथ तु एकां दात , तां च गाम इति भदः । यदि तु गां दद्यान्– इति गौरेव दाक्षिणादाने वि वीयेत, तत: तस्या वचनप्राप्ता द्वादशाठातसंख्यैव परिच्छे द्रिका प्राप्नुयादिति एकपच शब्दौ अनर्थकौ स्याताम् । नयोरपि विधाने वाक्यभेदः । अथ एकवचनबलान विवक्षि नैकत्वसंख्या गौर्विधीयते, तदा एकशब्दम्य अनुवादत्वनान थक्यम , पञ्चशब्दस्य अनन्वितार्थत्वं च स्यात् । नम्मादुक्तदा पपरिजिहीर्षया कारकविभक्तिश्रतिप्राप्तमपि संख्ययो: क्रिया संबन्धं परित्यज्य वाक्यलक्षणो गोसंख्यास्संबन्ध एव विधेय ऽभ्युपगन्तव्य: । ततश्च एकां गाम इत्येतावत्येव विधि: समा