पृष्ठम्:वादनक्षत्रमाला.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राधान्येऽपि * स्त्रियाम्' इति व्याकरणसूत्रभाष्याद्युक्तरीत्या तस्य प्रातिपदिकस्त्रीप्रत्ययान्यतरार्थत्वेन प्रथमश्रुतत्वात् प्र . प्राथम्यविशेषणस्येव प्राबल्यात् लिंगमेवानुरोद्धव्यमिति वा च्यम्, लिंगस्य प्राथमिकप्रातिपदिकस्त्रीप्रत्ययान्यतरार्थत्वे ऽपि तत्प्राबल्यहेतोः प्रथमप्रतीतेरसिद्धे: ; * अरुणया' इति तृतीयाप्रयोगे स्त्रीप्रत्ययस्य टाबाकारस्याश्रवणेन टापं स्त्रीलिङ्गासाधरणेन विभक्तिविकारेणोत्रीय तदनन्तरं तेन स्वयं वाच व त्वात--इति निरस्तम; क्लप्रकल्प्ययो: क्लप्तस्य बलीय स्त्वान् स्वातन्त्र्येण गुणपरेषु शुझादिशब्देषु कचिदपि स्री न कविभक्त्यन्वयस्वारम्यविरोधशङ्कापि । न तु गुणमात्रपरोो ऽरुणाशब्द:, एकहायनीसामानाधिकरण्यं परमौपचारिका भदावलम्बनमिति पक्षेऽपि । न च तस्मिन्पक्षे सामाना धिकरण्यस्य औपचारिकत्वापत्तिरेव दोष: ; प्रतीयमा नमामानाधिकरण्यात्यन्तबाधनान् तदौपचारिकत्वकल्पन म्य ज्यायम्त्वान् । किंचायमुपचार: सांप्रतिकलक्षणान्यायेन