पृष्ठम्:वादनक्षत्रमाला.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोजनं कल्पयितुं युक्तम्- इति । अथ नवमा वादनक्षत्रमाला | अथ दशामा मतुब्लोपानुशासनं लिङ्गविशेषादिसिद्धयर्थमित्येव वाच्य म, अर्श आदिगणे वर्णशब्दपाठेनैव वर्णविशेषवाचिभ्योऽज्वि धानस्य मत्वर्थीयप्रत्ययान्तरबाधकतया गुणविशिष्टबोधनार्थ मतुप: प्रसक्त्यभावात् तदबाधकतायाम * अत इनिठनौ' इति सूत्रत : इनिठनोरपि प्राप्त्या नीली नीलिक: इत्यपि रूपान्तर मिद्धिप्रमङ्गात्; मतुप इव तयो: लोपानुशासनाभावात् । दृष्टो व्यतिरेकः' इति वार्तिकं तु मुख्यपरिहारपरं न भ वति । अत एव तदनन्तरप्रवृत्तेन “तथा च लिङ्गवचन सिद्धि: ' इति वार्तिकान्तरेण मतुब्लोपानुशासनस्य लिङ्ग विशेषादिसिद्धयर्थत्वमेव उक्तम- इति । १ २ १ नीलादिशब्देभ्यो मतुपः प्रसक्तिर्नास्तीत्येतदमिद्धम , विधानस्य मत्वर्थयप्रत्ययान्तरबाधकत्वेऽपि मतुप्प्रत्ययबाध कत्वाभावात् । “ प्राणिस्थादातो लजन्यतरस्याम्' इति सूत्र गतम्य अन्यतरस्यांग्रहणस्य सर्वत्रैव मत्वर्थीयप्रकरणे मतुप्स मुचयार्थत्वेन अनुवृत्तरिष्टत्वात् सर्वत्रानुवर्तमानस्यापि तस्य