पृष्ठम्:वादनक्षत्रमाला.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा कचित्कचित् मत्वर्थयानेकप्रत्ययप्राप्तौ तत्र एकनियमन सामथ्यन् अनभिधानाद्वा बाधनसत्त्वेऽपि गुणवचनेषु तद्वा धानाङ्गीकारे तलोपविधायिशास्रावतारवैफल्यप्रसङ्गात् । न च लिङ्गादिसिाद्विमात्रं तत्प्रयोजनम् ; लुप्तस्यापि प्रत्ययस्यार्थ. वक्त्वाव इयभावेन तन्मात्रस्य तत्फलत्वा संभवात् , तस्याय. जन्ततयैव सिद्धिसंभवाञ्च । न चैवं तर्हि तद्वैफल्यमेव अभ्युपेयते इति वाच्यम् ; तथापि अच्प्रत्ययप्रकृतीनां गुण . शक्तरप्रतिक्षेप्यतया भाष्यकृदनुमादितस्य तस्य वैफल्या पगमस्साहसस्य निष्फलत्वात् । तस्मात् नीलादिशब्दानां क्षायां मतुप: प्रसक्त: तदश्रवणार्थ तलोपानुशासनमित्येवम्

  • सिद्धो व्यतिरेक:' इति वार्तिकोत्तं तस्य तत्फलत्वमवश्य

मभ्युपगन्तव्यम् प्रयोजनाभिप्रायम् । एवं च नीलादिशब्दानां नीलादिगुण इव तद्विशिष्ठ शरीरे शरीरविशिष्टे जीवे जीवविशिष्टेऽन्तया. मिििण च शक्तिः स्यादिति गौरवापादनमिष्टमेव, प्रामाणि कत्वात् । अन्यथा सर्वेषां शब्दानामन्तर्यामिण्येव शक्ति अन्यत्र सर्वत्र लक्षणा इत्यभ्युपगमे ब्रह्ममीमांसाधिकर अन्यविषयश्रुतिलिङ्गादिमूलकानां पूर्वपक्षाणामनुत्थाः