पृष्ठम्:वादनक्षत्रमाला.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निमित्ताश्रयतया नीलादिशब्दशक्यत्वोपपत्तेः । न च तद सिद्धिः, * नीलो गुण:' इति सार्वलौकिकव्यवहारोपपत्तये नीलत्वादिजातीनामपि तत्प्रवृत्तिनिमित्तत्वाभ्युपगमात् इति । ११९ नीलत्वादिजातीनामपि तत्प्रवृत्तिनिमित्तत्वाभ्युपगमे गौ रवं भवेत् । “ नीलो गुण:' इत्यादिव्यवहारस्तु * गौर्नित्या ' इयादिव्यवहारः गोशब्दस्य गोत्व इव नीलादिशब्दानां अथ षष्ठी उत्क्तगौरवं न दोषः, मतुब्लोपानुशासनशास्रप्रापितस्य प्रामाणिकत्वात् । तद्धि शास्त्रं नीलादिगुणविशिष्टद्रव्यप्रती त्यर्थम् । तन्न तत्प्रकृतीनां नीलादिशब्दानां गुणेषु शक्तिः सिध्येत् । रूपवानित्यादिमतुबन्तप्रकृतीनां रूपादिशब्दाना अथ सप्तमी मतुब्लोपानुशासनं न नीलगुणवैशिष्ट्यप्रतीत्यर्थम; किं तु गुणिविषयाणां तेषां विशेष्यलिङ्गग्राहित्वामिद्धयर्थ स्वरवि शषसिद्धयर्थ च–“ स्वरालिङ्गविशेषार्थ मतुब्लोपानुशासनम् ।