पृष्ठम्:वादनक्षत्रमाला.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ऋदस्य लक्षणया तीरे कदाचित्प्रयोग: * गङ्गायां घोषः इति कदाचित्तीरवाचकशब्देन सह प्रयोग: • गङ्गातीरे घोष इति– एवं गुणशब्दानां कदाचिन् लक्षणया गुणिषु प्रयो ग:– “ नीलो घट: ' * पीतो घटः' इत्यादि, कदाचिद्रव्य ९ १ वाचिना मतुपा मह प्रयोग: ' नीलवान्घट इनि– एवं द्विविधव्यवहारप्रसक्तौ लक्षणया प्रयोग एव ४ एवं च नीलादिशब्दानां शक्त्या गुणमात्रपरत्वं लक्षणया दृढादिसूत्रे ग्रहणमिति धर्मिपरदृढादिशब्दसाहचर्यान् यादिशब्दैः नीलादिगुणानामिव तदूतनीलत्वादिजातीनाम भिधानदर्शनाञ्च अवसीयते । न च शक्तादेव प्रत्ययनिष्पत्ति , न लाक्षणिकात्- इति नियमोऽस्ति : धर्मवाचकानामव शब्दानां वृत्तिविषये लक्षणया धार्मिपर्यन्तत्वस्य : निद्रा यत ' ' करुणायत' ' ओजायते' इत्यादौ बहुलमुपलम्भान् । नषु हिँ अनिद्रा निद्राबान्भवतीत्याद्यर्थेषु निद्रादिशब्दा निद्रावदादिधर्मिलक्षका:– एवमलोहितो लोहितो भवति लोहितायते--– इति शब्दनिष्पत्त्यर्थं प्रत्ययविधायके * लोहेि तादिडार्जभ्यः कृष्' इति सूत्रे लोहितग्रहणमपि लक्षणया