पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
वाग्व्यवहारदशः

स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ( रा५ ४।१।६८ ॥ इत्यत्र, सकुण्डलं सकवचं दीर्घबाहुं महारथम् । कथमादित्यसदृशं मृगी व्याघ्रं जनिष्य तीति । भारते ( कर्ण० ३४|६०-६१ ) । यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यतीति स्वप्ननाटके (६|१४) ऽपि लडर्थे लृट् । एवं भारतेऽपि व्यक्तं दुरे विराटस्य राजधानी भविष्यति (५|६ ) इत्यादिषु सर्वत्र बौद्धः शब्दार्थ इति ते तेऽर्था बुद्धिमुपगन्तारो न त्विदानीं बुद्धिमुपगता इति भविष्यन्ती सत्ता तेषामिति युज्यते लृट् । अयं च व्यक्ततर आस्वाद्यतरश्च लडर्थे लोट्प्रयोगः -ब्रह्मणो वा एतद्विजये महीयध्वम् इति केनोपनिषदि । पूजित महान्तो भवथेत्यर्थः,सर्वस्य सम्प्रतिपत्तेः । तद् ब्रूत वत्साः किमतःप्रार्थयध्वमिहागता इति कुमारे (२|२८)। न भ्रातरो न च पिता नैव त्वं मधुसूदन । ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् इति च भारते (वन० १२|२५-२६)। उपेक्षध्वम् उपेक्षध्वे । अत्रैवं भाषणे व्यवहार एव निबन्धनं न शास्त्रम् । क्वचिसल्लडर्थे लि़ड़मपि व्यवहरन्ति यया —इच्छेयं च गदाहस्तं राजन्द्रष्टुंॱ वृकोदरम् इति भारते (उद्योगं० ५५|३६)। अस्याश्च वाचो भङ्गया इच्छार्थेषु विभाषा वर्तमाने इति सूत्रानुग्रहोऽस्तीति नात्रोपपादनान्तरेणार्थः ।

 इदमपि लृट्प्रयोगे वैचित्र्यं विमर्ष्टव्यम् । अक्षमोऽसि सितासिते विवेक्तुमिति व्यक्तम् ,, नो चेद् दग्धं पूपशकलं नात्स्यसि ( नहीं तो जले हुए पूप का टुकड़ान खाता) इति । त्वन्नियोगाद्रामदर्शनार्थं प्रस्थितः कथमन्तरा निवर्तिष्ये ( कैसे, बीच में लौट आता ) (प्रतिमा० षष्ठेऽङ्के )। अन्यथाः कथं त्वामर्चनीयं नार्चयिष्यामः ( मालविका० ) । अन्यथा कथं देवी स्वयं धारितं 'नूपुरयुगलं परिजनस्यानुज्ञास्यति इति च । सन्ध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् । येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ।। इति च कुमारे (८|४४) । यद्यहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीश कि, करिष्यामि विनाथा विवशा सती ॥ इति रामायणे (५|३७|६३ ) हनुमन्तं प्रति सीताया वचनम् । अत्र' पूर्ववाक्ये यदिशब्दः सिद्धार्थानुवादे, न हेतौ । यथा नोलूकोऽपि विलोकते यदि दिवा सूर्यस्य किं दूषणम् इत्यत्र । अत्रैवमर्थं लृट् दृश्यते न च शिष्यते । लृटैव चैवमादिरथोभिधीयते विचक्षणैरितीह समुपन्यस्तैरुदाहरणैरेव सुज्ञानम् । न च हेतुहेतुमद्भावे लि़ङो लृङो वाऽत्र विषय इति शक्यशङ्कम् । लिङस्तावद्धेतुहेतुमद्भावे सति भविष्यन्नेव कालो विषयः । इह च वाक्येष्वतीता क्रियोच्यते न भविष्यती । सापि व्यामिश्र न शुद्धा । शक्नोत्यर्थोपहितेऽर्थे वर्त- मानाद्धतोस्त्र लृड् दृश्यते, नानुपहिते । अत्रोदाहरणेषु हेतुहेतुमद्भाव एव नास्ति । न ह्यत्र क्वचिद्धेतुवाक्यं श्रूयते । सिद्धार्थानुवादकमेव तु’ वाक्यं यत्र