पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
लकारार्थचिंन्तो

प्रयोगाः --क्षमं ते जीवतो गन्तुम् ( वन० २२३।११) इति | दुष्करं गन्तुमिति च (३|८०|५८ भं० सं० सं०)' वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः । अर्वाङ् निशीथात् (समा० २१।३३) इति च । व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम् | गन्तुं ब्रह्मन्सपुत्राणामिति धर्मीविदो विदुः ॥ (आदि० १५८।२२) न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिप (शंल्य० ११५।१८) दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चनेति (शल्य० ९|१६) इति । न नप्तारं न्याय्यं शप्तुमेवमिति च श्रीरामायणे (६|३८|२८) रामाय यौवराज्यं मे दातुमत्रैव रोचते इति गोरीसियो सम्पादिते श्री रामायणे (२।२।४) प्रतिकर्तुं प्रकृष्टस्य नापकृष्टेन युज्यत इति च (४|१७|७ )

लकारार्थचिन्ता

 पर्यवसितचिन्तस्तुमुनः प्रयोगः । इदानीं लकारार्थे चिन्ता प्रवर्तयामः । भगवता सूत्रकारेण वर्तमाने लड् विहितः, व्यवहारे त्वन्यत्रापि स दृश्यते। किं करोमि क्वगच्छामि । अत्र किं प्राप्तवसरं कर्तव्यं क्व वा मे गमनं हितमिति वक्तुरात्मनि सम्प्रश्न इति लोट् प्राप्तः । तं व्यवर्त्य लटमेव प्रयुञ्जते प्रयोगचणाः। ननु गच्छामि भोः, ननु करोमि भो इत्यत्र ननुरनुज्ञैषणायाम् । अनुजानीहि मां गमनं प्रतीत्यादिरर्थः । अनुज्ञा चेहेष्यते, प्रार्थ्यते इति प्रार्थनायां लोटि प्राप्ते लट्प्रयुक्तिर्व्यवहारमात्रनिबन्धनां । अङ्ग कूज वृषलं । इदानीं ज्ञास्यसि जाल्मेत्यत्रं प्रातिलोम्ये गम्यमाने तिडन्तमनुदात्तं भवतीति : ‘प्रत्युदाहृतं काशिकायाम् (८।१।३३ ) । तत्र कूजनमनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवतीत्यर्थः । तस्मात् कूजेति लड़र्थे लोट्प्रयोग इति प्रव्यक्तम् । वर्तमाने लट् इति वर्तमानकालिक क्रियावृत्तेर्धातोर्लट् विहितः,शीलोपहितेऽपि धात्वर्थे स भवति । तद्यथा इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मलिनीतीरेषु सखखीजना शकुन्तला गमयतीति शाकुन्तले ( तृतीयेऽङ्के ) । लकारान्तराण्यपि लडर्थे दृश्यन्ते

          कुतो धर्मक्रियाविघ्नः सतां रक्षितरिं त्वयि ।
          तमस्तपति , घर्माशौ कथमाविर्भविष्यति ।

 इति कालिदासप्रयोगे लड़र्थे लृट्. स्पष्टः । अत्र पूर्वत्र वाक्ये दार्ष्टान्तिके वर्तमानता क्रियायाः स्पष्टेति तत्साम्यादुत्तरवाक्ये दृष्टान्तेपि वर्तमानतैवेष्टा । तत्र च लृट् प्रयुक्तः कविना । सोऽसन्देहं वर्तमान एव व्याख्येयः गत्यन्तराभावात् । एवं प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो इत्यत्र कुमारे (२।३१ ) भविष्यति ज्ञानक्रियाया अनभिप्रेतत्वाद् ‘अन्तरात्मासि देहिनाम्’ इत्यनेनासंगतेश्च वर्तमानतैवाभिप्रेतेति व्यक्तम् । तेनात्रापि लडर्थे लृड् व्यवहारानुपातीति प्रति पत्तुमुचितं शासनादृतेऽपि । एवमहो कामस्य वामत्वं यो गतामपि दुर्लभाम्।