पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
वाग्व्यवहारादर्शः

मिति । एवं सा भृत्यं कूपाज्जलमाहर्तुमादिशत्, गुरुः शिष्यं चापलं कर्तुं न्यषेधत् । स स्वामिनं हन्तुं भृत्यानचोदयत्, इत्याद्यनुक्त्वा क्रमेण स भृत्यं कूपाज्जलमाहरेत्यादिशत् । गुरुः शिष्यं मा स्म चापलं करोरिति न्यषेधत् । स स्वामिहत्यायै भृत्यानचोदयत् इत्याद्येव वक्तव्यम् । तथा च श्रीरामायणे प्रयोगः - गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ( रा० २।११६।१८) ।

 क्वचिच्छास्त्रेणाविहितोऽपि तुमुन् महाकविभिः प्रयुज्यते । अगृहीतहेतिष्वशिक्षितो मे भुजः प्रहर्तुमिति श्रीहर्षचरिते बाणप्रयोगः । अत्र केन तुमुन्विधिः । न तावत् शकधृषज्ञाग्लाघटरभलभेत्यादिना शास्त्रेण | तत्रार्थशब्दस्यास्तिनैव सम्बन्धस्वीकारादन्येषु स्वरूपगृहीतेष्वेवायं विधिर्न पुनः पर्यायवचनेष्वपि । न च तृमुण्ण्वुलाविति सूत्रेण शक्यमिह तुमुन्विधातुम् । अक्रियार्थोपपदत्वात्प्रहरतेः । न हि शिक्षणं प्रहरणार्थे भवति किन्तर्हि प्रहरणविषयकं प्रहरणकर्मकम् । यदा तत्तदर्थे स्यात्किल तदा किं शिक्ष्यत इति प्रश्नस्य किमु उत्तरं स्यात् । अयमत्र समाधिः प्रतिभाति । शिक्षतिरिहाविवक्षितकर्माऽकर्मकः प्रयुक्तः । तथा सति प्रहरणार्थो शिक्षेति न दुर्घटोऽर्थः । तेन क्रियार्थोपपदत्वात्तुमुण्ण्वुलावित्यनेनं तुमुन्संगतो भवति ।

 इदं चेह विमृश्यं बाष्पश्च न ददात्येनां द्रष्टुं चित्रगतामपि (शाकुन्त ६।२२), स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्य इति च किराते (५|२८ )। अत्र तुमुन्केन । उभयत्र भिन्नकर्तृकत्वे तुमुन्निति नातीव तिरोहितम् । पूर्वत्र वाक्ये ददातिक्रियायाः कर्ता बाष्पः । दृशिक्रियायाश्च वाक्यबहिर्भूतो दुष्यन्तः । उत्तरत्र चापि स्मरणं सुरसुन्दरीकर्तृकम् । दिशिश्च लताभवनादिकर्तृक इति परिस्फुरति कर्तृभेदः । सुरसुन्दरीभ्य इत्यत्र क्रियाग्रहणमपि कर्तव्यमित्युपसंख्यानात्सम्प्रदानतायां चतुर्थीं । ता एव स्मरणकर्त्र्य इति वस्तुसन्नप्यर्थो न विवक्षितः कविना । तथा चोक्तं हरिणा वाक्यपदीये

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः।
सर्वदा सर्वथा भावात्क्वचित्किंचिद्विवक्ष्यते ॥ ३/७/२ इति ।

 एतज्जातीयके तुमुन्प्रयोगे कः समाधिरिति शास्त्रपारावारपारंगताः पारयन्ति वक्तुम् ।

 तुमुनोर्थः क्वचिदपि न निर्दिष्टः शास्त्रे । अनिर्दिष्टर्थाश्च प्रत्ययाः स्वार्थे भवन्ति । स्वार्थश्च धातूनां भाव एवेति तुमुन् भावे पर्यवस्यति । तत्रेदं चिन्त्यते किं भावाभिधायि तुमुन्नन्तं शब्दरूपं वाक्ये कर्तृतया व्यवहार्ये भवति यथा घञन्तं ल्युडन्तं वाऽहोस्विन्नेति । नेत्याह कोषकारः शिवराम आपटेः। न हिं भवति प्रातर्विहर्तुमारोग्यकरमिति । परमत्राप्यनेकान्तः । तथा च भारते कर्तृतायां