न तु सवः विधेयं तत्राप्रतिहतः प्रयोगप्रसर इति । तस्मात् कटं कुरुते । देवो वर्षति । रावणो हन्यते । ते भुञ्जते । वयं विचरयामं इत्यादीनां स्थाने कटं कुर्वाणोऽस्ति । देवो वर्षन्नस्ति । रावणो हन्यमानोऽस्ति । ते भुञ्जानाः सन्ति। वयं विचारयन्तः स्म इत्यादि व्यवहाराननुपातीति परिहरणीयमिति मतं नः । कथं वात्र सूरयः पश्यन्ति ।
तुमुन्प्रयोगविषयः
उक्तौ शतृशानचौ ।.तुमुन्नधिक्रियते । इदमिह विचार्यते भिन्नकर्तृकत्वेऽपि तुमुन्प्रयोगः शास्त्रस्य संमत उत नेति । शास्त्रे तुमुन्विधायिका पञ्चसूत्री समस्ति । तत्र समानकर्तृकेषु तुमुन्नित्येकं वर्जयित्वा शिष्टेषु समानकर्तृकत्वमुपाधिर्नाश्रितः। तेन स्थाने शङ्कितं तद्विहितस्तुमुन् भिन्नकर्तृकत्वेऽपि स्यादिति । कालसमयवेलासु तुमुन् (३।३।१६७ ), अक्रियार्थोपपदेषु शकधृषज्ञाग्लाघटरभलभक्रमस- हार्हास्त्यर्थेषु तुमुन् ( ३|६|६५ ), पर्याप्तिवचनेष्वलमर्थेषु ( ३।४|६६ ), इति, त्रिषु सूत्रेषु तावत्समानकर्तृकतोपाधिना नार्थ इति वचनं नापेक्षते ।. तुमुण्वुलौ, क्रियायां क्रियार्थायामित्येकं तु सन्देहास्पदम् । अत्र विसंवदन्ति चिवरीतारः । भाषावृत्तिटीकाकृत्सृष्टिधर आह-समानकर्तृकेषु तुमुन्निष्यते । अयं ( तुमुण्ण्वुलाविति विहितः) तु भिन्नकर्तृकत्वेऽपि स्यादिति मस्करिणो वस्तुं कुटिं घटयति . । गृही सुतेन भोक्तुं मांसं क्रीणातीति । भट्टोजिदीक्षितप्रभृतयस्तु नैतत्सहन्ते । आह च प्रौढमनोरमायां भट्टोजि:-तुमुण्ण्वुलाविति विधिरपि भिस्नकर्तृकेषु नेष्यते । पुत्रं भोजयितुमागच्छतीति वक्तव्ये पुत्रेण भोक्तुमित्यप्रयोगात् । सेयं . व्यवस्था शब्दशक्तिस्वाभाव्याद् बहुलग्रहणाद्वा सिद्धेति । समानकर्तृकेष्विति स्पष्टार्थमेवेति भाव इति हरिदीक्षितो नागेशश्च । व्यवहारदर्शनादपीदमैव मतं समर्थितं भवति । व्यवहारश्च प्रायिको गृह्यते । भवतु नाम क्वाचित्को व्यभिचारोऽनवधानकुतः, नं तेन किंचिच्छिद्यते । तेन न दास्यामि समादतुं सोमं कस्मैचिदप्यहम् इत्यत्र भारतप्रयोगे ( आदि० ३५|९ ) पि भिन्नकर्तृकतायां तुमुन् । यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान् मया धारयितुं चिरं व इति ( रघौ १४|४२ ) । ‘‘गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता इति च (१९|३ ) । न मृष्यति मां जीवितुं वसन्तबन्धुरिति दशकुमारचरिते (उ० २, पृ० १२९ ) । न कोऽपि निर्गन्तुं प्रवेष्टुं वानुमोद्यत इति मुद्राराक्षसे ( अं० ५ ) | श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी । मत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैज़िहत् (भट्टौ ५|५३ )। इत्यादिषु कर्तृभेदेऽपि तुमुनः प्रयोगश्चिन्त्य एवेति स्थितिः । तस्मादनुजानीहि मां गमनायेति भवति न त्वनुजानीहि मां गन्तु-