सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
वाग्व्यवहारादश

नैतं घोषं शृणोतीति (श० ब्रा० १४|८|१०।१ )। स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमांबसन्ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैरिति ( छा० उ० ५।१०|९ )। यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (५|११|५) इति च । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ( मनौ २|१५६ ) | सूत्रोदाहरणानि तु पचन्तं देवदत्तं पश्य, पचमानेन देवदत्तेन कृतम्, याचमानाय भिक्षुकाय देहि, शिशोर्वदनकमलं पश्यन्त्याः किमपि प्रह्लादते चित्तं जनन्याः, न हन्यते हन्यमाने शरीरे इत्यादीनि निर्बाधं प्रसरन्ति ।

 इदमत्र चिन्त्यम्–वृत्तिकरादयः प्रथमासामानाधिकरण्ये क्वचिदेवं शतृ शानचाविति मते स्थिताः | दृश्यन्ते च तत्रापि वितताः प्रयोग इति कोऽत्र समाधिः । तथा च केचित्स्थूलमुन्चीयन्ते–उत स्वः पश्यन् न ददर्श वाचमुत त्वः शृण्वन्न श्रुणोत्येनाम् ( ऋ० २०|७१|४)। कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा इति यजुषि (४०|२ )। जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवाँ जायत इति ब्राह्मणम् । स यः श्रद्दधानो यजते तस्येष्टं न क्षीयते ( कौ० ७|४ ) इति । जानन्नपि हि मेधावी जडवल्लोक आचरेत् इति मनौ ( २|११०)। प्रयुञ्जानः एव खलु भवानाह सन्ति शब्दा अप्रयुक्ता इति ( भाष्ये ) । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्नं इति रघौ (२|१७ ) । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति (तै० उ० २|९ ) । ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृग इति भट्टौ (५|४८ )। एवमनुष्ठिते चत्वारोऽपि ते परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्तस्तिष्ठन्तीति पञ्चतन्त्रे मित्रभेदे षोडश्यां कथायाम् । गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेत् , जघन्यमितरान् इति । चरके ( सूत्र० ३।१७)। तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन्न च वेदये- युस्तं परासुरिति विद्यात् इति च (इन्द्रिय ३|६ )। प्राचीं दिशं निषेवन्तः सदा देवाः सदानव इति ( व० पु० ४२।२२ )। निषेवन्तः = निषेवमाणाः । कार्याणि घटयन्नासीद् दुर्घटान्यपि हेलयेति राजतरङ्गिण्यां (४|३६४ )। इदं क्वाचित्कमिति कोऽसंमूढः प्रतीयात् । भाष्यकारस्य तु व्यवस्थितविभाषा नाभिमता । तत्र भवान् नन्वोर्विभाषेत्यतो विभाषामनुवर्तयति येन प्रथमासामानाधिकरण्ये विभाषा शतृशानचाविच्छति, उदाहरति च पचन् , पचति । पचमानः प्रचत इति । न वयं लक्षणैकचक्षुष्का लक्ष्यैकचक्षुष्का वा । लक्ष्यलक्षणे उभे अपेक्षामहे । लक्ष्ये त्विदं निभाल्यामहे यत्र शत्रन्तं शानजन्तं वा शब्दरूपमात्मनैव विधेयं न तु विधेयान्तरमस्ति तत्र क्वचिदेव, प्रथमासामानाधिकरण्ये शतृशानचौ भवतो यथा चोदाहृतम् । येन देवदत्तः पचन् ( अस्ति ) इत्यादिः र्भाष्यकारेणाभ्यनुज्ञातोऽपि विरलः प्रयोगः । यत्र च खलु तद् विधेयांशो भवति |