पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
समासस्येष्टत्वादनिष्टत्वे

तत्रोच्चार्यते । हेतुहेतुमद्भावाभावे क्रियातिपत्तेविचार एव नोदयते । यद्यपीह सर्वत्रः पूर्ववाक्येषु तात्पर्यग्रहद्धेतुत्वे पर्यवस्यत्यर्थः,तथापि हेतुत्वं शब्दोक्तं नास्तीति लिङो लृङो वा नैष विषय इति विशदं विपश्चिताम् ।

 सन्देहाक्रान्ते भूतेऽर्थे वर्तमानाद्धातोर्लृट् प्रयोग एव शिष्टाभ्यनुज्ञातोऽवि हितोऽपीत्यपि दिङ्मात्रमुदाहरामः- न भविष्यति हन्त साधनं किमिवान्यत्प्रह रिष्यतो विधेः ( रघौ ८I४४ ) तदयमपि त्वष्टुः कुन्दे भविष्यति चन्द्रमा इति ( अनर्घ० २I८०) । श्रीरामायणे खल्वपि-हता मृता वा नष्टा वा भक्षता वा भविष्यति इति (२|६०|८) यथा च नो मतिर्वीर विषपीतो भविष्यति (.भा०.१|१२८|६१ )। अगोपाश्चागताः गावः कचस्तात न दृश्यते । व्यक्तं हतो मृतो वापि कचस्तात भविष्यति इति च ( १|७६|३२ )। बौद्धः शब्दार्थ इति विषपीतत्वादेर्बुद्धथनुपारोहाद् भविष्यत्कालतेति लृट् प्रयोगोपपत्तिमाहुः ।

समासस्येष्टत्वानिष्टत्वे

 उक्तो लकारार्थविशेषः । इदानीं समासमधिकृत्य किञ्चिद् ब्रूमः । न वयं समासशास्त्रमुदाहृत्य “समासाश्रयविधिं वा निरुच्य कृतित्वमात्मनोऽभिलष्यामः । उक्तः स विषयो भगवता सूत्रकार्येण विवृतश्च वृत्यादिभिः । इदं तु विशिष्य विवक्षामः समासः क्वेष्यते क्व च नेष्यते इति । क्व समासेनैवार्थाभिधेयः क्व च व्यासेनैवेति । सत्यमिष्टं हि विदुषां लोके समासख्यासधरणमिति द्वावेव वाचां मार्गौ प्रथेते । तत्र कदा कस्य परिग्रह इति तावद् विवेच्यम् । अस्थाने क्रियामाणे समासे पदानामनिष्टो गुणप्रधानभावः प्रसज्यते । वाक्यप्रसादोऽपि बहुधा विलीयते । इदं तावत् कालिदासीयं वाक्यं विचिन्त्यताम्--जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तवेति । अत्र पुरुपदस्य यत् प्राधान्यं न तत् समासे सत्यवतिष्ठते। समासगतोऽयं शब्द, “ सम्बन्धमात्रमाह, नातोतिरिक्तं किंचित् । वाक्यगतस्तु स साभिप्रायं विशेषणं याख्यायते । बहुविधश्चाभिप्रायस्तत्र लक्ष्यते । अयं नाम वंशो यस्य कस्य न भवति किन्तर्हि प्रथां गतस्य पितृभक्तस्य पुरोः, योऽयमात्मनो सौख्यं तृणीकृत्य स्वं यौवनं जनकाय ययातयेऽददात्, जरा च 'तदीयां पर्यगृह्णात्। अत एवात्र प्रणिगदन्ति भाषामर्मज्ञाः

          सम्बन्धेमाजमर्थानां समासो ह्यवबोधयेत् ।
          नोत्कर्षेमपकर्ष वा वाक्यात्तूभयमप्यदः । इति (व्यक्ति० २|१७) ।

 एवमन्यत्रापि वाक्ये स्वातन्त्र्येण प्रयुक्तं पदं समासे गुणभावं भजते । यथा स तस्य स्वो भावः प्रकृतिनियतत्वादकृतक इति भवभूतिप्रयोगे .स्व इति पदस्य यत् प्राधान्यं न तत् स्वभाव इति पदैक्ये भवति । स्वस्य भावः, स्वश्चासौ