अपामञ्जली पूरयित्वा ( आश्व० गृ० १।२०) । पूर्णं रक्तासवानां यममहिष महाशृङ्गमादाय पतगाविति (यो० वा० उ० ८१।१०२). दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत् पदा (मनौ ११।१८३)। चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः (६।७६ ) इति च । नवं शरावं सलिलस्य पूर्णमिति । कौटलीयेऽर्थशास्त्रे (१०।१३१ )। ओदनस्य ‘पूर्णाश्छात्राः विकुर्वत इति सूत्रे (१।२।३५ ) काशिकायाम् । स्निग्धद्रवपेशलानामन्नविशेषाणां भिक्षाभाजनं परिपूर्णं कृत्वेति तत्राख्यायिकायाम् ( मित्रसम्० कथा० १ )। तं च खादिराणामश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् इति च चरके (सूत्र० १४।४६ ) । तुषाणां स्थालीं पूरयित्वेति ( आप० श्रौ० ८।२।८।१२) आसेचनवन्ति पयसः पूरयतीति (का० श्रौ० २६।७।३२ )। पूर्णा वामेन तिष्ठन्तेति ( ७।६२।२) शौनकीयाः पठन्ति, पूर्णा वामस्य तिष्ठन्तेति पैप्पलादाः । सोऽयं शाखाभेदे पाठभेदः पूर्ण शब्दविषये प्रायिकतां षष्ठ्या वक्तीति नितान्तमुत्तानम् । शौद्धिकं दधिमधुघृतजला क्षतानां नवं पात्रं पूरयित्वेति च शङ्खलिखितस्मरणम् । ऋक्षु खल्वपि--पूर्णं आहावो मदिरस्य मध्वः (१०।११२।६ ) ।
भरितशब्दयोगेपि षष्ठी दृश्यते भारते । तद्यथा—सन्ति निष्कसहस्रस्य भाण्डिन्यो२उदङ्कपाट्यांशः भरिताः शुभाः । इति ( सभा० ६०।२) । पूर्णार्थकवर्धितशब्दप्रयो गेऽपि षष्ठीं प्रयुञ्जते मन्वादयः स्मर्तारः--पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् ( मनु० ३।२२४)।
उपपदविरहेपि तद्योगशिष्टा विभक्तिः
तैस्तैरुपपदैर्योगे तास्ता विभक्तीरनुशास्ति शास्त्रकारः । अन्तरेणाप्युपपदं सा सा दृश्यते । त इमे कालपूगस्य महतोस्मानुपागताः (भा० सभा° ३५।२४)। कस्यचित्त्वथ कालस्य, ततः कतिपयाहस्य, तच्छ्रुत्वेत्यत्र भारते ( वन० २५९।८, १६०।१५, उद्योग० १८९।१८ )। अथ दीर्घस्य कालस्य ( आदि० १५।५ ) । चिरस्य वाच्यं न गतः प्रजापतिः । भगवन्निमामाज्ञाकरीं वो गन्धर्वेण विवाह विधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीताम् इत्यादौ शाकुन्तले च पश्चा दित्युपपदं परिहृतम् । एति जीवन्तमानन्दो नरं वर्षशतादपीति रामायणप्रयोगे प्यूर्ध्वमित्याद्युपपदमपेक्षितं सदप्युपेक्षितम् । परं नैष उपपदपरिहारोऽन्यत्रापि
१. पूर्णाः सुहिता इत्यर्थ इति न्यासः । २. कुण्डिन इति पाठान्तरम् । ३