सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
वाग्व्य्वहारदर्शः

सदव्ययतव्यसमानाधिकरणेन ( २।२।११) इति करणस्य शेषविवक्षायां लिङ्गमप्यस्ति । अत्र काश्चिद्दिश-उपन्यस्यन्ते-नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिरिति भारते (अनुशासन० ३८|२५॥)। अग्निस्तृप्यति नो काष्ठैर्नापगाभिर्महोदधिरिति तु क्वाचित्कः पाठ आगन्तुकोऽसम्प्रदाय इति वेद्यम् । वेदेऽपि करणाविवक्षायां षष्ठी दृश्यते‌--अनुकामं तर्पयेथामिन्द्रावरुण राय आ (ऋ० १।१७।३ ) । इन्द्र सोमस्य वृषभस्य तृप्णुहि (ऋ० २।१६।६ ) इति च । मन्दानः शिप्रयन्धसः ( अथर्व० २०।५३।२)। मन्दानस्तृप्यन्निति यावत्। हिरण्यवर्णा अतृपं यदा वः । (३।१३।६ ) इति च । तृम्पन्तु होत्रा मध्व इति ( ७।१५) वाजसनेयके। वाग्देवी जुषाणा सोमस्य तृप्यतु इति च (८।३७ )। सूत्रेष्वपि --अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ( महाभाष्ये २।२।२९)। अतृप्तिश्चान्नस्य (आप० ध० २।१।३):.भारतेऽपि-—चिरस्य दृष्ट्वा दाशार्ह राजानः सर्व एव ते । अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥ ( उद्योग० ९४|५१)। नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येत् (२९।६ ) इति च । कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि इति चान्यत्र (द्रोण० ५५।३६)। गव्यस्य तृप्ता मांसस्येति (कर्ण० ४४।२७ ) । न हि तृप्तास्मि कामानां ज्येष्ठा मामनुमन्यताम् (आदि० १२५।२५) । अवितृप्तः सुगन्धस्य समन्ताद् व्यचरद्वनम् इति वामनपुराणे (२१।३२)। अतृप्तोऽस्म्यद्य कामानाम् इति च भागवते (९।१८।३७ ) । मद्बाणानां तु वेगेन हतानां तु रणाजिरे । अद्य तृप्यन्तु मांसादाः (रा० ६।५७।१८-१९)। सदोद्गारसुगन्धीनां फलानामाशिता इति च भट्टौ ( ७।३८ )। आशितास्तृप्ता इत्यर्थः । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारेति सन्दृभञ्छ्रीहर्षोऽप्यत्रानुकूलः। माघस्तु अथवा श्रेयसि केन तृप्यत इति करणमवज्ञायाधिकरणत्वमाद्रियते। तदस्य स्वातन्त्र्यमिति किमु तत्र वक्तव्यम् ।

 पूर्णशब्दयोगे पूरयतेश्चापि प्रयोगे करणस्य शेषविवक्षा दृश्यते प्रायेण । तद्यथा--सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ( रा० १।६।२१)। हृदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे (रा० २।९१|७३ )। नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् इति भागवते (१०।८।२०॥)। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्या वरणं त्वासां भिनत्तीति योगभाष्ये (४।३) । स एष हृदः कामानां पूर्णो यन्मनः (जै०उ०ब्रा० १।५८।३)। तस्येयं पृथ्वी सर्वा वित्तस्य पूर्णा स्यात् (तै० उ० २।८)।


१. दिश उदाहरणानि ।