शक्योऽतिदेष्टुम् । अत्र विषये भगवतः सूत्रकारस्य स्वं वचः प्रमाणं प्रथमम्-- स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् । अत्र प्राक् उपपदं नोपात्तम्१उदङ्कपाट्यांशः ।
क्वचिच्चोपपदयोगे विभक्तिनियमो व्यवहारत एवावसेयो भवति न शास्त्रतः। अनन्तरशब्दयोगे षष्ठ्यपि दृश्यते पञ्चमी चापि । सुखस्यानन्तरं दुःखं दुःखस्या नन्तरं सुखम् । सुखदुःखे मनुष्याणां चक्रवत् परिवर्त्ततः (भा० शां० (२५।२३) ॥ सर्गशेषप्रणयाद्विश्वयोनेरनन्तरम् इत्यत्र कुमारे(६।९)ऽनन्तरशब्दयोगे विश्व योनेरिति सम्बन्धमात्रे षष्ठी । तस्यानन्तरमिति भाष्ये दर्शनात् । अन्यत्रापादान त्वविरहेपि पञ्चमी यथा–नीलादनन्तरश्चैवधृष्टकेतुर्महाबलः (भा० भीष्म० ५६।१३)। तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थे दृष्ट इति प्रथमसूत्रे शाबरभाष्ये दर्शनात् । अथातो धर्मजिज्ञासा वेदाध्ययनादनन्तरमित्याचार्याः । कविः कालिदासोपिषु राणपत्त्रापगमादनन्तरमिति ।
अन्तरन्तराभ्यन्तरमध्यैर्योगे प्रायेण सप्तमी दृश्यते । यथा--उत्क्षेपणादिषु गमनादीन्यन्तर्भवन्तीति पृथङ् नोक्तानि । अविद्यायामन्तरे वर्त्मानाः स्वयं धीराः पण्डितंमन्यमाना इति मुण्डकोपनिषदि । अभ्यन्तरोहं लोके न त्वहं लोक इति भाष्ये । गुणेषु मध्ये प्रसादो नाम गुणः सर्वस्य प्रियः । प्रभृति योगे पञ्चमी दृश्यते । तत्र कार्तिक्याः प्रभृत्याग्रहायणी मात्र इति भाष्यकारप्रयोग एव मानम् । पुराशब्दयोगेपि व्यवहारे पञ्चमी दृश्यते । तद्यथा— गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्पुरा (याज्ञ० १।१० ) ॥
भावलक्षणा सप्तमी
शास्त्रे येयं भावलक्षणेति विश्रूयते सप्तमी तत्राप्यस्ति वक्तव्यम् । तत्रावदधतां विपश्चितः । यस्य च भावेन भावलक्षणम् ( २।३।३७ ) इति हि तत्र विधायकं शास्त्रम् । कोऽस्य विषयः । यदा निर्ज्ञातकाला क्रिया अनिर्ज्ञातकालाया अपरस्याः क्रियायाः कालपरिच्छेदाय भवति सोऽस्य विषयः । क्रियां ह्यत्र लक्षणं क्रियान्त रस्य । लक्षणं चेहानुमापकं व्याप्तिग्राहकं लिङ्गं न गृह्यते यथा धूमोग्नेः, किन्तर्हि ज्ञापकमात्रमिति सर्वं भाष्यादौ स्पष्टम् । इदं तु न विस्पष्टं किं यस्यैकस्य क्रिया लक्षणं विवक्षिता तस्यैव क्रियान्तरं चेल्लक्ष्यं भवति, भवत्यनेन सूत्रेण तंत्र सप्त म्युताहो नेति । नेत्याह मान्यः कोषकृच्छ्रीशिवराम आपटेः । इदमेव च सम्यग्दर्शनम् । पूर्वं सूरयस्त्वत्र न संशिश्यिरेऽतो नात्र निर्णयमूचिरे । भाषावृत्तिकारः पुरुषोत्तम एवैकः प्रकृतसूत्रं वर्णयन्स्माह--यस्य च क्रिययाऽन्यस्य क्रियान्तरं
१. वेदे खल्वपि-यतो न पुनरायाति शाश्वतीभ्यः समाभ्यः (अथर्व० ६।७५।२। अत्रो र्ध्वपदपरिहारेपि समाभ्य इत्यत्र पञ्चमी ।