पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
वाग्व्यवहारादर्शः


 केचनः धातवो धातुपाठे स्पष्टमकर्मकाः पठिताः। अर्थनिर्देशो हि तथालक्षणोऽभूत् । तथापिं लोके सकर्मका अपि ते दृष्टाः । उपसर्जनं व्याकरणम् । व्यवहारः प्रधानम् । त एते भवन्ति-श्च्युतिर् क्षरणे, दु द्रु गतौ, स्रु गतौ, क्षर संचलने, स्यन्दू प्रस्रवणः इति । पटलं श्च्योतति । एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि (उ० रा० च०.३।३४ ) । अत्र श्च्युतिरकर्मकः । लोचनेनामृतश्च्युता (क० स० सा० १०१।३०४) इत्यत्र च सकर्मकः । अग्न्यातपपसम्प्रयोगाद् द्रवति घृतमित्यत्र द्रवतिरकर्मकः । रक्षांसि भीतानि दिशो द्रवन्तीत्यत्र गीतासु तु सकर्मकः । अवस्रवेदघशंसोऽवतरमित्यत्र (ऋ० १।१२९।६) स्रवतिरकर्मकः । स्रवत्यनोङ्कृतं पूर्वं पश्चात्तु विशीर्यत इति मनुवचने ( २I७४), धनाद्धि धर्मः स्रवति शैलादधि नदी यथेत्यत्र, न हि निम्बात्स्रवेत्क्षौद्रम् ( रा० २।३५।१७) इत्यत्र चाकर्मकः । तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्मेति ( आप० २।५।२)। स्रवत्युदकं कुण्डिकेति भाष्ये !, वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रे च.सुस्रुवुः (भा० शल्य २५।३२) 1 स्वरेण तस्याममृतस्रुतेव प्रजल्पिपतायामभिजातवाचि इति कुमारे ( १/४५ ), कुञ्जरेण स्रवता मदम् इति कथासरित्सागरे । न हि मलयगतश्चन्दनतरुः परशुप्रहतः स्रवेत् पूयम् इत्यत्र च सकर्मकः । तपः क्षरति विस्मयाद् इत्यत्र ( मनौ ४।२३७ ), तेनास्य क्षरति प्रज्ञोत्यत्र (.मनौं २I९९॥ ) च क्षरतिरकर्मकः ! आपश्चिदस्मै घृतमित्क्षरन्ति (अथर्व ७।१८।२), तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु (मनौ २।१०७) । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्ति र्मे देवता संनिधत्ताम् इत्यत्र (बा० रा० १।१४) च सकर्मकः। स्यन्दन्ते सरितः सागराय न च सर्वाः समुद्रगा भवन्ति । तीव्रं स्यन्दिष्यते मेघैः (भट्टौ १६।७ ), मत्स्या उदके स्यन्दन्ते । शिरामुखैः स्यन्दत एव रक्तम् ( नागानन्दे ५।१६ ) इत्यत्र स्यन्दतिरकर्मकः । सस्यन्दे शोणितं व्योम इत्यत्र (भट्टौ १४।९८ ) च सकर्मकः । अत्र सर्वत्र संकर्मकत्वमन्तर्भावितण्यर्थत्वादुपपादयन्ति । एवं शुच शोक इत्यनुपसृष्टः केवलोऽपि सकर्मको दृष्टोऽकर्मकश्च। तद्यथा—-अथैनमद्रेस्तनग्रा शुशोच ( रघौ २।३७) । किं शोचतेहाभ्युदये बतास्मान् ( भट्टौ ३।१२) इत्यत्र शोचतिः सकर्मकः । शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलमित्यत्र मनौ (३।५७ ) चाकर्मकः । सोपसर्गकस्तु नैयत्येन सकर्मकः । अशोच्यानन्वशोचस्त्वमित्यत्र गीतासु यथा ।

 अन्तर्णीतक्रियान्तरा अकर्मिका अपि क्रियाः सकर्मिका भवन्ति । तद्यथा- भुजर्विजितंविमांनरत्नाधिरूढः प्रतस्थे पुरीम् ( रघौ १२।१०४) । अत्र


१. धातूनामुपसर्गवशात्सकर्मकत्वाकर्मकत्वे इति । विषयोऽस्माभिरुपसर्गार्थचन्द्रिकायां वितत्य निरूपितः। स तत्रैव द्रष्टव्यः।