सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
धातोः सकर्मकत्वाऽकर्मकत्वे

प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्दिशिक्रियापेक्षया संकर्मकत्वम् । एवंमन्यत्रापि । ऋषयो वै सरस्वत्यां सत्रमासत इति भारते आदिपर्वणि । सत्रमुद्दिश्येत्यर्थः । यथाऽग्नेर्ज्वलत: सर्वा दिशो विस्फुलिङ्गं विप्रतिष्ठेरन् इति कौषीतकिन (३।३) आमनन्ति । अथ प्रायमुप्रवेक्ष्यामीति श्रीरामायणे । प्रायमननशनमुद्दिश्य कृतासना भविष्यामीत्यर्थः । इहैव प्रायमासिष्य इति च (४।५३।१९) । यथा स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् ( भा० कर्ण० ) । व्याघ्रमुद्दिश्य' बुक्केदित्यर्थः।

 अस्ति च धातूनां क्रियान्तरोपसर्जनकस्त्रार्थाभिधायकत्वम् । यथा कुसूलान्पचतीत्यत्रादानगर्भः पाकोऽभिधीयत इति मंल्लिनाथः । एवं ‘रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वयेति (१८।३० ) भट्टिप्रयोगे रुदेरकर्मकत्वेऽपि तदङ्गभूतज्ञानक्रियापेक्षया सकर्मकत्वम् ।

 क्वचिद् धात्वर्थ'निर्देशो विभ्रमकोऽभूदित्यवश्यप्रतिपत्तव्यम् । गृधु आकाङ्क्षायामिति दिवादिरकर्मक इति दर्शितचरम् । अर्थनिर्देशस्तु सकर्मकोऽयमिति विभ्रमयति । धनं गृध्यत्यभिकाङ्क्षतीति प्रयोगप्रसङ्गात् । एवं कृश तनूकरण इत्यर्थनिर्देशानुरोधात्सकर्मकः प्रतीयते । भवति चायं प्रायेणाकर्मक इतीहैवानुपदं व्यक्तं भविष्यंति । सप्त मेधान्पशवः पर्यंगृह्णन् स एषां ज्योतिष्माँ उत यश्चकर्श इत्याथर्वणिकाः ( अथर्वं० १२।३।१६) । तस्मादितर आत्मा मेद्यतिं च कुश्यंति चेति ब्राह्मणम् (ताण्ड्य० ५।१i७ ) । अत्रोभयत्राकर्मकता विस्पष्टा । अत एव लोके वृत्तिकर्शित इत्यादिषु सकर्मकत्वलाभायं णिच् प्रयुज्यते । कृश्यति तनूकरोत्याध्रारमिति कृशानुरित्यत्रं त्वन्तर्भावितण्यर्थः कृश्यतिर्द्रष्टव्यः ।

 तृप प्रीणने, तृप प्रीणन इत्येके । पूवों दिवादिरुत्तरस्तु स्वादिः । उभावप्यकर्मकौ । अर्थनिर्देशस्तु पूर्ववद् व्यामोहकः । प्रणनमिति तृप्तिर्ग्राह्या न तु तर्पणमपि । पितॄनतार्प्सीद् इति भट्टिप्रयोगस्तु चिन्त्यः । अन्यत्रापि भट्टौ क्लिशादिधातुविषये सकर्मकाकर्मक्रत्वसंकरो दृष्टः शदलृ शातन इति भूवादिः सर्वत्र प्रयोगेऽकर्मको दृष्टः शत्स्यन्ति ते दन्ता इत्यादौ । अत एव सकर्मकत्वलाभाय णिच्प्रयुज्यते-शादयति गाः । शातयति शत्रुणां शिरांसि । शातनमित्यर्थनिर्देशस्तु व्यामोहयति धिषणाम् ! अत एवं विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यत इति कौमुद्यां दीक्षितः ।  यद्यपि सर्वे नवगण्यां पठिता धातवः स्वार्थे णिचं लभन्ते इति वैयाकरणाः, वथापि पूञ् पवने, ओहाक् त्यागे इति णिच्सहितौ प्राकृतेऽर्थे प्रयोगमवतरतः


१ नृपारमजौ चिक्लिशतुः संसीतौ (३।३१) इत्यत्र यथा ।