सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
धातोः सकर्मकत्वाऽकर्मकत्वे

३२।१६)। दुर्णामा तत्र मा गृधत् ( अथर्व० ८।६।१ )। मा गृधो नो अज़ाविषु ( अथर्व० ११।३।२१) इति च । ते पत्नीष्वेव गन्धर्वा गर्धिष्यन्तीति शतपथे ( ३।९।३।२०.) । भारते खल्वपि गृधिरकर्मको दृष्टः । तद्यथा—परवित्तेषु ‘गृध्यतः (उद्योग० ७२।१८)। यदां गृध्येत्परभूतौ नृशंसः (२९|३०) इति च । प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः (३०।२६) इति च तत्रैव । गृध्येदेषु न पण्डित इति (स्त्री० २।२५ ) । अन्योन्यमभिगर्जन्तो गोषु गृद्धाः ( विराट० ३२।२)। तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ( भीष्म० ९।७२ ) । आचार्यो हि भृशं राजन्निग्रहे तव गृध्यतीति (द्रोण७. १११।३५) । आमिषे गृध्यमानानाम् (= गृध्यताम् ) अशुभं वै शुनाभिव ( शां० ७।१०)। एष धर्मः परमो यत्स्वकेन राज्ञा तुष्येन्न परस्वेषु गृध्येत् (वन० ४।७)। अनित्यं यौवनं रूपं जीवितं रत्नसंचयः । ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र नः पण्डितः (२।४७) इति च । चरकेऽपि भारतवद् गृधिरकर्मकः । तद्यथा-स्नातानुलिप्तगात्रेऽपि यस्सिन्ध्यन्ति मक्षिकाः (इन्द्रिय० ५।१५ ) । यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृताः स्त्रियः ( विराट० ९।३३ ) राजन्किमन्यज्ज्ञातीनां वधाद् गृध्यन्ति देवताः (शां० ८।२५) । इह प्रदेशयोस्तु गृध्यतिः सकर्मकः प्रयुक्तः । तच्चिन्त्यम् । भट्टिरपि गृध्यमर्थमवाप्स्यसि’ (४।५५ ) इत्यत्र गृधेः सकर्मकतामभिमन्यते । स्रोंपसर्गस्य प्रतिपूर्वस्य गृध्यतेस्तु भारतेऽनेकत्र प्रयोगेषु सकर्मकत्वमास्थितम् । तद्यथा—आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ( आश्व० ३१।९, १२, १५, १८) । तच्चेष्टम्। उपसर्गवशाद् धातूनां सकर्मकत्वापत्तेर्बहुत्र दृष्टेः । क्वचित्सोपसर्गकोऽपि गृध्यतिरकर्मकत्वं न जहाति यथा बाह्मद्रव्यविमुक्तस्य शारीरेष्वनु गृध्यत इत्यत्र भारते ( शां० १३।२) । एतेन केवलो गृध्यतिर्नियतमकर्मक इति किमु वाच्यम् ।

 लुभिरप्यकर्मकत्वे नियत इति मुक्तसंशयमुपलभस्व । असम्भवं हेममयस्य जन्मोस्तथापि रामो लुलुभे (= लुलोभ ) मृगाय । प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्तीति भारते ( सभा० ७६।५) । असम्भवं हेममृगस्य जन्म’ तथापि रामो लुलुभे मृगायेति च हितोपदेशे भारतच्छायानुकारिवचनम् । अन्यत्रापि भारते लुभिरकर्मको लक्षितः । तद्यथां य एवं नैव कुंप्यन्ते (= कुप्यन्ति ) न लुभ्यन्ति तृणेष्वपीति ( अनुशा० ५९।२२ ) । पाण्डवार्थे हि लुभ्यन्तः (उद्योग० १३०।२६) इति च । देवा अपि न लुभ्यन्ति त्वयीति (क० स० सा० ३२।९६) । लुब्धो यशसि न त्वर्थे (५५।३०) इति च ।