सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
वाग्व्यवहारादर्शः

राज्ञ इत्यादिषु षष्ठी नोपपद्येत । नकुलं सहदेवं च ’बलवीर्यसमन्वितौ । सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः (मा० उद्योग० १३९।६) । अत्र प्राप्येति पूर्वश्लोकादनुवर्तते । न क्षंस्यति क्षमावान्न भविष्यतीति यावत् । व्यक्तं क्षमिरत्राकर्मकः। स दिवादिरेव भवितुमर्हति न भ्वादिः। तत्राकर्मकत्वे सति परस्मैपदित्वं मानम् । अत एव सकर्मकत्वलाभाय णिच्प्रयोग उपपन्नो भवति- मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् (जननी मे महानदी) इति भारत उद्योगपर्वणि (१७८।९२)। अत्र . भार्गवश्चक्षाम (क्षाम्यति स्म) । महानदी मे जननी भार्गवं क्षमयामास ( क्षमयति स्म ) इत्यणौ कर्तृर्णौ कर्मत्वम् । क्षमतेश्चेत्प्रयोगः स्यादनुक्ते कर्तरि तृतीया स्यात् । अन्यत्रापि भारते सकर्मकत्वलाभाय क्षाम्यतेर्णिज् दृश्यते । तद्यथा-ततो दुर्योधनो द्रोणं क्षमयामास भारत (विराट० ५१।१७) । स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् (विराट० ६८|६२) इत्यत्र । त्रयोदशाहमात्रं मे राजा क्षम्यतु (=क्षाम्यतु) भाविनि (भा० विराट० २४।२९) इत्यत्र-क्षाम्यतेः श्यन्विकरणस्य तिङन्तस्याकर्मकतया प्रयोगों’ मुक्तसंशयमस्मदुक्तमुपस्तभ्नाति । क्षमतेस्तु ‘निध्नस्य मे भर्तृनिदेशरौक्ष्यं’ देवि क्षमस्वेतिं बभूव नम्रः (रघु०. १४|५८) इत्यादिषु सकर्मकतया प्रयोगः । माघस्तु क्षाम्यतिं सकर्मकं पश्यति । तथा ह्रस्य प्रयोगः मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेत कः (२।४३) ।। अत्र पूर्वार्द्ध गतायाः क्षाम्यत्विति क्रियायां विराध्यन्तमिति कर्म । क्वचिद् भौवादिकः -क्षभिरप्यकर्मकतया प्रयोगमवतरति । तद्यथा-क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणातू (उद्योग० ३९।६०)। ह्रियमाणे धने राजन् वयं ' कस्य क्षमेमहि (शां० ८।१३)i'कस्मै कर्मणेऽलं भवाम इत्यर्थः । पार्वतस्य क्षम त्वं वै क्षमतां पार्वतश्च. ते (द्रोण० १९८।५८) इति च ।

 गृधिलुभी उंभावप्यकर्मकौ । काव्यनाटकादिषु तिङन्तो गृधिर्विरलं प्रयुक्तः, कृदन्तस्तु बहुलम् । गर्धः, गर्धनः, गृध्नुरित्यादयः’ कृत्प्रत्ययान्ताः प्रयुज्यन्ते । गृध्यतीत्यादयस्तु क्वचिदेवास्मदादीनामविषय इति मन्त्रदृशां चिरन्तनमुनीनां च प्रयोगा उदाह्रियन्ते । यस्यागृधद्वेदने वाज्यक्षः (ऋ० १०।३४|४) । निरामिणो रिपवोन्नेषु जागृधुः (ऋ० २।२३।१६)। मा गृधः कस्य स्विद् धनम् (यजुः) इति । अत्रैकं वाक्यमिति मा स्म ते भ्रमो भूत् । मा गृध्रः, छुब्धो मा भूः इत्येकं वाक्यम् । धनं कस्य स्विदिति चापरम् । तत्रैव श्रुतेः स्वरसः । स्विदित्यनर्थको निपातः ‘प्रश्नार्थको वT । भारतकारोऽप्यत्र वाक्यभेदमूरीकुरुते । यदाह--कस्येदमिति कस्य स्वमिति वेदवचस्तथेति ( आश्व०