संमानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिश्रुणोमि ते (रा० ६|११९|१३ )॥
ग्रह्शब्दो हि नानार्थः। सूर्यादिषु नवसु प्रसिध्यतितमाम् । परं ग्रहोतिथिरपि । भवति । तथा च भारते प्रयोग–यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते ( अनु० १००|६ ) ।
यत्रद्यत्वे प्रायेण समासोतरपदेन तृतीयान्तेन रूपशब्देनारथोर्प्यते तत्र द्वितीयां पुरा प्रयुञ्जते प्राञ्चः। तद्यथा—इमाँल्लोकानुखामपश्यन् (श ० ब्रा० ६|३|३|१५)। उखारूपेणेत्यर्थः । स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः(भा० वंन० २९५|१२ ) इत्यादिर्बहुलो व्यवहारो भारतादिषु, सोऽनुसर्तव्यः ।
दोषारोपणे दोषेण वा योजनेर्थे खल्वेषा भाषितभङ्गी विलोक्यते प्राक्तनी--यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति (भा० आदि० २०३|१५)। दोषेण युक्तं ज़ानातीत्यर्थः । गत्यर्था ज्ञानार्थकाः ! नायमर्थः स्वकपोलकल्पितो न वा क्लिष्टकल्पितः । गमिर्ज्ञानार्थं एवात्र प्रयुक्त इत्यत्रैव पूर्वार्द्धे--न चापि दोषेण तथा लोको मन्येत्पुरोचनम्। इति मन्यतेः प्रयोगो मानम् । अर्थैक्ये धातुद्वयप्रयोगः । दोषतः कं गमिष्यामि ( भा० आदि० १०८|१ )। दोषत इत्यत्र तृतीयान्तात् तसिः । य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। न स कालं न वा देवानेनसा गन्तुमर्हति । उक्तोऽर्थः।
वस निवास इति धातो विंरमणेऽर्थे रुचिरः प्रयोगो भारते--निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः (उ० ३३|२४)। न मंध्ये विरमतीत्याह ।
स्यन्दू स्रवण इति स्यन्दनशब्दे श्रूयते धातुः । स्यन्दते याति स्यन्दन इति स्वामी । अत्रार्थे बाढमास्वादनीयः प्रयोगस्तिङि शतपथे—स होवाच सङ्ग्रहीतर्युङ्ग्धि मे, स्यन्त्स्यामि" ( ११।८।४|२ ) । स्यन्दनारूढो यास्यामीत्याह ।
उत्तमशब्द इष्टविषयं परं महिमानमाचष्ट । इति पुरुषोत्तमादिषु शब्देषु प्रव्यक्तम् । अनिष्टविषयमपि तमाहेति व्यक्तयामः-प्रप्तोस्म्यापदमुत्तमाम् ( हरि० २|१२६|८४ )। अतिमहतीं विपदं गतोस्मीत्याह । अन्त्योऽप्युत्तमो भवति । होता प्रथमो भक्षयति यजमान उत्तमः ( आप० श्रौ० ८|१|३|१५) । आचार्यः खल्वप्याह –उत्तमैकाभ्यां च (५/४/९० )। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्ट इति तत्र वृत्तिः ।
स्थितो निवृत्तगतिरित्यनर्थान्तरम् । स्थितः स्थितामुच्चलितः प्रयाताम् ( रघु० २|६ ) इत्यत्र यथा । विरतः समाप्तोऽवसित इत्यत्रार्थेपि प्रयोगमवतरन्दृष्ट्– स्थितः शक्रमहस्तात श्रीमान् गिरिमहस्त्वयम् ( हरि० २|१७|११ )।