जक्ष भक्षणहसनयोरित्यदादिषु पठ्यते । भक्षणेऽर्थे प्रसिध्यन्ति प्रयोगाः , हसनेपि समुपलभ्यते शतपथस्थः-उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ( १४|७|१|१४ ) ।
स्वृ शब्दोपतापयोर्भौवादिकः । स्वरति ध्वनतीति स्वरोऽकारादिः। संशब्दन आह्वानेपि वर्तत इति वेद्यन्ते विविदिषवः। तद्यथा——इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् (अथर्व० २०|९|२ ) । प्रियमेधा मनुष्या इन्द्रं स्तोमैराह्वयन्नित्यर्थः ।
श्विं गतिवृद्धयोर्भूवादिषु पठितः । वृद्धयर्थस्तावदुर्दश्विच्छब्दे श्वयथुशब्दे च स्पष्टमुपलभ्यते । तिडन्तस्यास्य क्व प्रयोग इत्यनुयोगः । शतपथे स स्थित इति ब्रूमः--पशुरालब्धः संज्ञप्तोऽश्वयत् तमेताभिराप्रीभिरप्रीणात् (११|८|३|५ )। अश्वयत् शून उच्छूनोऽभवदित्यर्थः ।
गत्यर्थकस्य पतेर्भारतस्थोऽयं प्रयोगः किमपि संवननं हृदयस्य— अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे (शां० १७५|९ )। पतन्ति अतियान्ति ।
टुनदि समृद्धाविति भूवादिः । नन्दति प्रसीदतीत्यत्रार्थे तु प्रचुरं प्रयुज्यते । मुख्ये समृद्धयर्थे प्रयोगोऽवदानमालायाम्-अधर्म्यमेव बलिमुद्धरन्नृपः क्षिणोति देशं न च तेन नन्दति ( जा० २३|७० )। न नन्दति न समृध्यतिं न समृद्धिमान्भवति न स्फीतो भवतीत्यर्थः ।
वह गतिप्रापणयोः पठितः । प्रसिध्यन्ति च प्रयोगास्तयोरर्थयोः । अप्रतिबन्धेन प्रवृत्तावपि वर्तते इति तन्त्राख्यायिकागतः प्रयोगोऽयं रस्यताम्-- न शस्त्रं वहतेऽश्मनि( १|१३|१६० )। (भुवि ) हलस्य 'कर्षणेपि वर्तते, अन्यदा किल धर्मज्ञा सुरभिः सुखसम्मता । वहमानौ ददर्शोर्व्या पुत्रौ विगतचेतसौ ( रा० २|५४|१५ )।
ददातिनार्थे विश्रूयते । व्याहरणेऽपि श्रूयते | मानुषीं वाचं ददति । ( तंन्त्रा० २|५ ) ।।
अर्ह पूजायाम्. भूवादिश्च चुरादिश्च । तत्रार्हत्ययं कृतघ्न उपद्रवस्य ( माल०)। स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा (मनु० ३|३) इत्युदाहरणे । मूल्ययोग्यतायामपि शातपथी श्रुतिः--तस्माद्सीसं हिरण्यरूपं सन्न किंयचनार्हति (५|४|१|१० )। नास्य कियानप्यर्घो भवतीत्यर्थः ।
संज्ञाकरणे दशम्यामुत्थाय पिता नाम करोतीत्यादिषु गृह्योक्तेषु,करोतेः प्रयोगः प्रथते । क्वचिद् धाञोपि स दृश्यते यथा धेह्योव मे नामेति (श० ब्रा० ६|१|३|१५) इत्यत्र ।