अनन्तरः संलग्नः । अन्तेवासीत्यत्रान्तशब्दः सामीप्यमाह । वाक्येप्यस्यास्मिन्नर्थे प्रयोगो' दृश्यते-तस्माज्जायाया अन्ते नाश्नीयात् (श० ब्रा० १०|५|२|९)।
नाकस्माच्छ्रमश्रुलः स्यादित्यादिषु गृह्यवचनेषु कस्मादित्यकारणादित्यस्यापर- पर्यायः । नञ्ररहितस्यः कस्मादित्यस्य कारणादित्यर्थे प्रयोगो भारते, स आस्वाद्यताम्--अकस्माद्यदि वा कस्मद्वर्तन्ते सात्त्विका गुणाः ( शां० २४०|२३ ) । तत्कस्मादित्यादिषु पृच्छावाक्येषु कस्मादिति साक्षात्कारणं नाह । विशेषणमहिम्ना तु विशेष्यार्थलाभः ।
एकाग्र एकायनगतः समाहित उच्यते, अनेकाग्रश्च तद्विपरीतः । अनैकाग्र्यमेित्यस्य व्यभिचारित्वम् अनैकान्तिकत्वमित्यर्थेपि वृत्तिर्भवति । तथा च भारते ( शां० २६०|१९ ) प्रयोगः-- आचाराणामनैकाग्र्यं सर्वेषामुपकल्पयेत्।
वृड् संभक्तावित्यस्य संभक्तेरन्यत्रापि प्रयोगो भारते– परान्वृणीते स्वान्द्वेष्टि तं.गौस्त्यजति भारत (उ० १२४|२८)। परान् वृणीते परेषु प्रीयते प्रीति-मान्भवतीत्यर्थः ।
यथेदानीमित्यस्य कालिदासे (शा० ४ ) क इदानीमुष्णोदकेन नवमालिकां सिञ्चतीत्यत्र वाक्यालङ्कारे प्रयोगस्तया सम्प्रतिशब्दस्यापि शतपथे-- न ह्ययुक्तेन मनसा किंचन सम्प्रति शक्नोति कर्तुम् (६।३।१।१४ ) ।
उपमावाचकस्य इवशब्दस्य सम्प्रत्यर्थेऽप्युपलभ्यते व्यवहारः । इहेव निधेहीति ( निं० ७|३१|१ )। स मृत्युमाप्नोतीत्यर्थं तं मृत्युरागच्छतीत्यपि व्यवहारानुगं भवतीति वक्ष्यमाणाच्छतपथप्रयोगादवस्यामः-नैनं पुरा कालान्मृत्युरागच्छति ( १४|५|१|१२ ) ।
निर्मोकशब्दः. सर्वस्य विदितो मोकस्तु कस्यचित् । भिद्यते हि मोको निर्मोकात् । मोकोऽजिनं भवति । तथा च भारते प्रयोगः --कदलीमृगमोकानि ( सभा० ४९|१९)। कदलीमृगा मृगविशेषास्तेषां मोकानि अजिनानीति भारत भावदीपः ।
कृते इति सुबन्तप्रतिरूपकमव्ययं कारणात् तदर्थमित्येतयोरर्थयोः प्रथते । कृतेनेति तृतीयान्तमपि तत्र प्रयोगमवतरद् दृष्टम्--मत्कृतेन हि तावद्य संन्तापं परमेष्यतः ( भा० वन० २९७|९५ )। ब्राह्मणोसीतिं पूज्यो मे विश्वामित्रकृतेन च ( रा० .१|७६|१ )। मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै (भा० उ० १६८|१९ )।
प्रतिपूर्वः शृणोतिरङ्गीकारे प्रसिद्धः। विप्राय गां प्रतिश्रुणोति । दास्यामीति प्रतिजानीते । दानाद्यविषये प्रतिज्ञाने 'सङ्गरेपि दृश्यते-न मे स्वर्गो बहुमतः -