पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
प्रथमोऽनुबन्धः

द्वैगुण्याद्यतिक्रम्य पूर्ववद् वर्धत् इति । अधमर्णेन सुवर्णादिप्रयोगनिमित्तां वृद्धिः प्रयोक्त्रे देया भवतीत्यर्थः ।।

 निज आत्मीयो भवतीति न न विदितम् । अहं राष्ट्रस्याभीवर्गे निजोभूयासमुत्तमः (अथर्व०-३|५|२ )। अत्रानन्यसहायो निजशब्देनोक्त इति सर्ववेदभाष्यकारः सायणः । अहो खाधुरभ्यूह आचार्यस्य । यो निज आत्मीयो मवति सोऽनन्यसाधारणो भवति, ततोऽनन्यसहाय इति न दवीयानध्यां ।

 प्रकारः सादृश्यम् इत्यत्रार्थे प्रसिद्ध:| प्रकारे गुणवचनस्य (पा० ८|१|१२) । प्रयोगस्त्वत्रार्थे न सुलभ इति स इह सन्निधाप्यते -दीर्घो हर्षनृपोदन्तः सोऽयं कोऽप्यद्भुतावहः। रामायणस्य निभृतं प्रकारो भारतस्य च (राजत० ७|१७२८)। प्रकारः सदृशः । भारते खल्वपि-यूपप्रकारा बहवो वृक्षाश्चेमे विशांपते (वन० ११०।१७ ) ।

 धू विधूनन इति तुदादिषु पठ्यते । स केवलो बीजनेपि वर्तत इति विदाङ्कुर्वन्तु सन्तः। तन्मरुतोऽधून्वन् (ऐ० ब्र० १३|१०)। अथ च एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते ( श० ब्रा० १३|२|८|५ )। अत एव धवित्रमिति व्यजनान्तरमुच्यते । उक्तं चामरेण–धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणेति । धूञः प्रयोगे व्यजनमपि क्वचिच्छ्रूयते करणम् । तद्यथा व्यजनैर्धूयमानोपि तावत् प्रज्वलते न सः (भा० सभा० ३१|२९) ।

 विन्दतेर्व्यवहारे वधीयताम् ! यद्यक्ष्यमयो विन्देत् (श० ब्रा० १३|३|८|४)। अक्षीति द्वितीयान्तम् । यदि नेत्रं रुज्येत, रोगेण ग्रस्येतेत्यर्थः । यस्य जायामार्तवं विन्देत् ( श० ब्रा० )। यस्य जायर्तुमिती स्यादित्यर्थः ।

 णिजिङ शौचपोषणयोरित्यस्य प्रायेण निष्पूर्वस्य प्रयोगो भवति, केवलस्यापि क्वाचित्क इति स दृश्यताम्--यथा निक्तस्य ( पशोः ) लोमानि शीयन्ते (श० ब्रा० १३|२|६|८)। निक्तस्याभिषिक्तस्य आर्द्रीकृतस्य । शीयन्ते पतन्ति ।

 यौतकं सुदाय इति प्रतीतोर्थः । यौतकमसाधारणं रिक्थममिं भवति । तथा च (मनु० ९|२१४.! प्रयोगः--न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् । भारते खल्वपि--न तत्र संविभज्यन्ते स्वकर्मभिः परस्परम् । यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ( शां० १२९० )।।

 अनन्तरमुत्तरमव्यवहितपूर्वमव्यवहितपरं वा भवतीति प्रसिध्यत्यर्थ:। अव्यवहितमात्रे सानुषङ्गेर्थेपि भारतस्थः प्रयोगः--सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् ( शां० १५३|८९)। अन्यत्ारप्यनन्तरशब्दो व्यवह्रियते--कार्ये चानन्तरोऽभवत् (भा० वन० २८०|७ ) ।