६४५- साधारणीकरणे च मानवस्य सामाजिकी सहानुभूतिपूर्णा सौन्दर्योपासिका
प्रकृतिः कारणम् ।
६४६– प्रत्येकं ललितकलानां सरसं भवतीति व्यवसितम् ।
६४७- कश्विदैतिहासिकोऽमरसिँहभामहदण्डिनामग्निपुराणात् पूर्ववर्तित्वं प्रति
जानीते, अपरस्तु परवर्तित्वम् ।
६४८- इत्यन्त:प्रेरणाऽस्या निबन्धरचनायाः श्रेयोविशेषं भजते ।
६४५- समाजं रक्षति तत्सभवेतः सन्निति सामाजिक उच्यते । सदस्य
इत्यपरपर्यायः। प्रयोगदिदृक्षया रङ्गे कृतसन्निधानो जनोऽपि
सामाजिकशब्देनाभिलप्यते—तेन हि तत्प्रयोगादेवात्रभवतः
सामाजिकानुपास्मह इति मालत्याम् । देवि ! सामाजिका भवाम इति
मालविकायाम् । समाज़स्येदमिति शैषिके ठकिं प्रयोग नितान्तदुर्लभः ।
सहानुभूतिरिति समस्तं पदमपि साहित्ये दुर्लभम् । लब्धं चेत्स्यात्सहचरितं
संवेदनमेव ब्रूयात् । केन सहचरितं किंलक्षणं च तदिति विशिष्य न
निर्ब्रूयात् । योऽत्र वक्तुर्विवक्षितोऽर्थः स व्यवहारे समादृतेन जनेनेत्थम्भूतेन
न्यासेन शक्योऽर्पयितुमात्मा च श्रेयसा योक्तुम्- साधारणीकरणस्य च
मानवस्य नैसर्गिकी सामाजिकता स्वेतरसमानानुभूतिः
सौन्दर्योपासकता च कारणम् इति ।
६४६- ललितकलाः प्रत्येकं सरसा भवन्तीत्येवं वक्तव्यम् षष्ट्या नार्थः ।
ललितकलाः कर्त्र्यः । प्रत्येकमिति वीप्सायामव्ययीभावः । क्रियाविशेषणं
चैतत् । अत्र बहुतरकं पूर्वत्र व्याहृतम् ।
६४७–अत्र दाण्डिभामहामरसिंहानाम्, इत्येवं द्वन्द्वे पूर्वनिपातनियमानुरोधेन
वक्तव्यम् । कस्य पौर्वकाल्यं कस्य चौत्तरकाल्यमिति व्यवसाय नानुपूर्वी
निर्णेया । यस्मात्तदगमिकाऽऽनुपूर्वी समासेन न शक्या गमयितुम् । पूर्ववर्तित्वं
अपरवर्तित्वमिति पदे अतिहाय पूर्वकालतामपरकालताम् इतीमे
प्रयोक्तव्ये ।
६४८-श्रेय इति प्रशस्यतरं भवति विशेषणं चेत् । श्रेयः कल्याणं भवति विशेष्यं
चेत् । प्रकृते कल्याणार्थायोगादिस्थाने श्रेयः शब्दप्रयोगः । इत्यन्तः-
प्रेरणेमां निबन्धरचनां विशिष्य प्रयोजयति, अस्या निबन्धरचनायाः प्रधानं
प्रयोजकं (प्रमुखं निबन्धनम् ) इत्येवं वा वक्तव्यम् ।