सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
वाग्व्यवहारादर्शः

भारतेऽपि पुम्भूम्नि प्रयोगो दृश्यते—यवप्रस्थं तु तं सक्तूनकुर्वन्त (=अकुर्वत) तपस्विनः (आश्व० ९०।३३} धानाशब्दोऽपि प्रायेण स्त्रियां बहुत्वे । तथा चामरः पठति--धाना भृष्टयवे स्त्रिय इति । वासोदशाऽऽविश्चापि स्त्रियां बहुत्वे प्रयुज्येते । आविरिति प्रसववेदनोच्यते । यथा च चरके (शारीर० ८।३६॥) प्रयोगः-ततोऽनन्तरमावीनां प्रादुर्भाव इति । वस्तिशब्दोऽपि दशावचनः स्त्रीपुंसयोर्बहुत्वे नियम्यते ।

 क्वचित्कर्तृकर्मणोर्बहुत्वेऽप्येकवचनान्तमाख्यातपदं प्रयुञ्जते व्यवहारकोविदाः । तद्यथा—चरः शरीरावयवाः स्वभावो धातवः क्रिया । लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन्परीक्ष्यते ॥ (चरके सूत्र० २७।३३१)। उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते । (मनौ ५।६१ इत्यस्यानन्तरं क्षेपकः) । तेन स्वातन्त्र्यमुपाध्यन्तरयोगों' वाक्यं च निवर्तते इति काशिकायाम् (४।२।६६) । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदिति मनौ . (११।९३।)। आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ इति । तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धत इति श्रीरामायणे (४।२९/११) । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशित इति च (६।१०४|५} । अभ्याजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्वानिर्दिष्ट इति भाष्ये (१।२।२) । सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृत इंति चरके (सूत्रं० २६।६६॥) । तथैव देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यात इति चोत्तरे रामचरिते । अत्रोदाहरणेषु नपुंसकमनपुंसकेनेति शासनातिक्रमोऽपि न दोषाय । व्यवहारेणाभ्यनुज्ञानात् । अत्र वाक्येष्वत्येनैव चकारसमुच्चितेन पदेन क्रियान्वयः, अन्यत्र क्रियाऽध्याहार्येति समाधिमाहुः ।

धातोः सकर्मकत्वाऽकर्मकत्वे

 गतं लिङ्गसंख्याभ्याम् । धात्वधिकरणकं किञ्चिद् ब्रूमः । धातूनां सकर्मकाकर्मकत्वं तावन्न सुकरं प्रतिपत्तुम् । अयथाप्रतिपन्ने च तस्मिन्दुष्यति सर्वोऽपि वाक्यविन्यास इति तदिह किञ्चिद्विशदयामः । शल हुल पत्लृ गताविति धातुपाठः। पततिरयं गमेरर्थे प्रयुज्यते । अधोगमनाद्यर्थावगमनं तु प्रकरणात् । तथा च शिष्टप्रयोगाः -  उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् (ऋ० १।१९१।९) । नेज्जिह्मायन्त्यो नरकं पतामेति खिलपाठः ( ऋ० १०/१०६ सूक्तस्यानन्तरम् ) । यथा महान्तमध्वानमाशया पुरुषः पतन् । स निराशो निवर्तेत कमैंतन्नस्तथो-