पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
धातोः सकर्मकत्वाऽकर्मकत्वे

पमम् ॥ इति भारते (शां० १०।११) । दिशः पपातः पत्त्रेण, वेगनिंष्क्रम्पकेतुना (रघौ १५।८४) । पपात पूर्वा जहतो विजिह्मतां.......प्रसक्तसंपातपृथक्कृतान् पथ इति च किराते (४।१८) । आश्वीनानि शतं पतित्त्वेति च काशिकायाम् (५।२।१९) । नभः पतन्त्यात्मसमं पतत्त्रिणः । यथा गमिः सकर्मकस्तथा पततिरपि । तथैव चोदाहृतम् । ऊर्ध्वगमने तु प्रायेणाकर्मकः । पक्षिणः खे पतन्ति । वेदा यो वीनां पदमन्तरिक्षेण पतताम् (ऋ० १।२५।७॥) । अपि शक्या गतिर्ज्ञातुं पततां खे पतस्त्रिणाम् इति कौटलीयेऽर्थशास्त्रे (२।३०) । अधोगमनेऽर्थेऽपि प्रायेण तथा । क्षते प्रहारा निपतन्त्यभीक्ष्णम् । ऊर्ध्वगमनेऽपि पततिः क्वचित्सकर्मको दृष्टः -उत्पपातोदङ्मुखः खमिति मेघदूते । हन्तुं कलहकारोऽसौ शब्दकारः पपांत खम् इति च भट्टौ (५।१००) इदं चात्रानुषङ्गिकमुच्यते—अनुपसृष्टोऽपि पततिरुड्डयनेऽर्थे बहुलं प्रयुज्यत इत्यभिव्यक्तं प्रागुदाहृतेषु । अत एव शत्रन्तः पतच्छब्दः पक्षिपर्यायतां गतः । तथा च किराते (६।१) प्रयोगः---परमः पुमानिव पतिं पतताम् इति । कर्मणोऽविवक्षायां सर्वोऽपि धातुरकर्मको भवति । तथा च भारते प्रयोगः–-अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः। नामषं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः । (सभा० ५०।१७॥) यदा समेता बहवस्त्वया राजर्षयः सह । कथयिष्यन्ति.....इत्यत्र श्रीरामायणे (२।१२।४०) च । सह कथयिष्यन्ति = संकथयिष्यन्ति = संवदिष्यन्ति । भारतेऽपि कथिरविववक्षितकर्माकर्मकः प्रयुक्तः-एवं सनत्सुजातेन विदुरेण च धीमता । सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी (उद्योग० ४७।१) ॥ तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् (उद्योग० ११४।९) । इति च ।

 वृषु सेचनं इति सकर्मकः। कर्मणः प्रसिद्धेस्तु तन्नोच्यत इत्यकर्मको भवति । देवो वर्षति । जलमित्यनुक्तमपि गम्यते । अर्थगत्यर्थः शब्दप्रयोगः। स चेदर्थाऽन्तरेणापि शब्दं गम्यते नासौ प्रयुज्यते । अत एव जलमिति नोपादीयते । जलातिरिक्तं कर्म तु न न प्रयुज्यते । पार्थः शरान्वर्षति । क्वचित्तु प्रसिद्धमपि जलादिकं कर्मं श्रूयत एव । तद्यथा—तेन नापो यथाकालं देवो वर्षतीति चरके (विमान ३।२४) । सोऽयं लाघवं प्रत्यनादरो वक्तुः।

 दियादयोऽकर्मकाः । अल्पा एव तु सकर्मका इति कृतान्तः । तेष्वल्पेषु मध्ये पुषः पुष्टाविति प्रायेण सकर्मको दृश्यते । तथा च कवीनां प्रयोगाः—-सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् इति शाकुन्तले, पुपोष लावण्यमयान्विशेषान्ज्योत्स्नान्तराणीव कलांन्तराणीति च कुमारे (१।२५) । वेदे खल्वपि--नार्यमणं पुष्यति नो सखायम् (ऋ १०।११७|६) इति । परमयमपि क्वचिदकर्मक इत्यत्र पुष्यसिध्यौ नक्षत्रे (२।१।११६) इति सूत्रं लिङ्गम् । पुष्य इत्य- .