पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
लिङ्गसंख्ये

एवमन्यत्रापि-पातुकामेषु वत्सेषु मातॄणां शातितः स्तनाः (रा० २४३।१७) । तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरिषीकाभिः समार्पयत् ( भा० उद्योग० ९६।३१-३२) ॥ यतु आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुश्श्रोत्रमथो बलमित्युपनिषद्येकवचनं तदिन्द्रियाभिप्रायेण। इन्द्रियं नामैकं भवति, गोलके तु द्वे, अतश्चक्षुषी श्रोत्रे इति द्विवचनम् । यच्च कुमारे ( ३।६७ ) उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानीति बहुवचनं तद् बहुत्वापेक्षम् । त्रिलोचनस्य भगवतः शिवस्य तानीति ।

 केचिच्छब्दाः पुभूम्नि नियतोः। अथ ब्रह्मचर्यं परिसमाप्य ’दारान्कुर्वीत । पत्नीपरिग्रहं कुर्यादित्यर्थः । कथं दशरथस्य धर्मंदारा इयं कौसल्येति उत्तरे रामंचरिते । अक्षतास्तिलकक्रियायां प्रशस्ताः । वरवध्वौ लाजैरवकिरन्ति कन्याः । परे स्त्रियां बहुत्वे प्रयुज्यन्ते । उक्तं चामरेण-आपः सुमनसो वर्षा अप्सरः सिकतासमाः । एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥ इति उत्तरत्रयस्यैकत्व । उदाहरणानि-उर्वशी नामाप्सराः पुरूरवसं चकमे । प्रासे तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेदिति च। एका च सिकता तैलदानेऽसमर्था खार्यप्यसमर्था इति भाष्ये । समां समां विजायत (५।२।१२) इति भगवान् सूत्रकारः। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् (ऋक्० ४|५७|७) । न स जीवति तां समाम् इति च चरके (इन्द्रियस्थाने २|१६)। सुमनःशब्दो मालतीवचनस्त्वेकत्वे प्रयुज्यतेऽनवग्रहम् । आह च सुमना मालती जातिः । कुसुमवचनत्वेऽपि बहुत्वं व्यभिचरन्दृष्टः । वेश्या श्मशानसुमना इव वर्जनीयेति मृच्छकटिकायाम् । अघ्रासातां सुमनसाविति च (२|४|७८) काशिकायाम् । वर्षाशब्दस्तु नित्यं ब्रहुत्वे । जलौकेत्याकारान्तं त्रिषु वचनेषु यथापेक्षं प्रयुज्यते । जलौक इति सकारान्तं तु बहुवचने नियतम् । पांसु शब्दः प्रायेण बहुवचनान्तः । पांसवः कस्मात् । पादैः सूयन्ते । पन्नाः शेरत इति निरुक्ते (३।१२।१९) निर्वचनदर्शनात् । व्याख्येयगतो बहुत्वे प्रयुक्त इति तस्यायमनुवाद इति मा स्म भ्रमीः । संमूढमस्य पांसुर (ऋ०१।२२।१७) इति हि तत्र मूलम् । सक्तुरपि तादृशः अत्र करम्भो दधिसक्तव इत्यमरोक्तिः प्रमाणम् । धानाचूर्णं सक्तवः स्युरिति क्षीरोद्धृतं कोषान्तरं च ।


१. सूत्रग्रन्थेऽषूपनिषत्सु च क्वचिद्दारशब्दः पुंस्येकवचने प्रयुक्तो दृश्यते- तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपहासभिंञ्छेत्, ( बृहदा० ६।४।१२ ) सोऽयमतिविरलश्छान्दसः प्रयोगो लोके नानुपात्यः ।
२. वर्षाशब्दस्य बहुत्व एव प्रयोग इत्यत्र वर्षाभ्यष्ठग् (४।३।१८) इति सूत्रकारवचोऽपि मानम् ।