पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/85

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

| :o वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [अधिकारः) योजनानि निजकक्षययाऽथवा भाजितानि भगणादिखेचर: । व्योमवृत्तगुणिताद्द्युराशितो मण्डलादि कुदिनघ्नकक्ष्यया ॥ १६ ॥ [भवृत्तखवृत्तयोर्भोगकालः]

भवृत्ततुल्यानि हि योजनान्यमी व्रजन्ति पूर्वाभिमुखं स्ववृत्तगाः ॥ इनाब्दषष्टया समगा दिवौकसः खवृत्ततुल्यानि युगस्य वत्सरैः ॥ १७ ॥३

{बुधशुक्रकक्ष्या-रविकक्ष्यासमत्बे हेतुः)

रविभगणहता बुधसितयोर्कक्ष्या योजनैर्युगाब्दाः स्युः । बुधसितयोर्यत एवं लिप्ताभोगतोऽनयोः सौरः ॥ १८ ॥

[कुजगुरुशनिशीघ्रकक्ष्या-रविकक्ष्यासमत्वे हेतुः)

चलकक्ष्यायां भ्रमतां कुजगुरुश[नै]श्चराणां कक्ष्या।
इनभगणहता अध्वा तच्छीघ्राणामतश्चार्कः ॥ १९ ॥

[ग्रहभाना क्षितेरुपर्युपरि-स्थितिक्रमः] शशिज्ञशुक्रार्कमहीसुताङ्गिराशनैश्चरार्क्षाणि यथाक्रमं क्षितेः । अधोपरिस्थानि सुरक्षसां पुरिं भ्रमन्ति तिर्यक्त्वितर[त्र] भूतले ॥ २० ॥ Text of Ms. A ; | 16] योजनानि निजकक्ष्पयाथवा भाजितानि भगणादिखेचर: व्तोमवृतगुणिता घुराशितो मंडलादेकुदिन घ्नक * - या। [17] भवृत्ततुल्पानि हि योजनात्पमा व्रजंति पूर्वाभिमुखं स्ववृत्तमाः इनात्मषप्टया समगा दिवौकसः स्ववृततुल्पानि युगस्प वत्सरैः ॥ f 18] रविभागाहता बुधसितचलकक्ष्पायोजनैर्युगाव्दास्स्यु बुधसितयोर्यत एवं लिष्ताभोगतोनयोस्सौरः ॥

[19] चलकक्ष्पापा भ्रमतोः कुजगुरुशश्त्तराः कक्ष्पा

इतरभगणहत्ता अभ्वातश्छीघ्राणामतश्चार्कः ।

[20] शशिज्ञः शुक्राश्च महीसुतांगिरः शनैखराक्षाणि यथाक्रमं ।। क्षेतेः

क्षक्षपरिस्छानि सुरक्षसां पुरि। भ्रमंति तिर्यत्क्वितर भूतले। Ms. B : 17 a योजनान्पष्मी 17 c °षष्टया 19 c अध्वात"