पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/86

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] कक्ष्याविधान-ग्रहानयनविधिः 61

[होरा-दिन-मास-वर्षाधिपानयनम्] [(i) ग्रहाणामधिकाधिकगतिक्रममधिकृत्य] 

होरेश्वराः सप्त शनैश्चराद्या यथाक्रमं शीघ्रजवाश्चतुर्थः ॥

दिनाधिपः सावनमासनाथः स्यात्सप्तमोऽब्दाधिपतिस्तृतीयः ॥ २१ ।।

[(ii) ग्रहाणामधिकाधिकदौर्यक्रममधिकृत्य]

विधोर्यथोर्ध्वं द्युपतिस्तु पश्चमो भवेच्च षष्ठोऽब्दपतिस्तु सावनः ॥ अनन्तरो मासपतिश्च सप्तमो भवेच्च होराधिपतिर्यथाक्रमम् ॥ २२ ॥

[ग्रहभगणानां भिन्नत्वे हेतुः] अल्पे हि वृत्ते गृहभागलिप्ताः स्वल्पा महत्यो महतीन्दुरस्मात् । अल्पेन कालेन लघु स्ववृत्तं भ्रमत्यनल्पं महताऽर्कसूनुः ॥ २३ ॥ [नाक्षत्रसावनदिवसयोः स्वल्पाधिकत्वे हेतुः]

प्राणेन लिप्ता भमुदेति पूर्वे भूजेऽपरेऽस्तं ब्रजति ग्रहश्च ॥ स्वभुक्तिलिप्तायुतचक्रलिप्ताभोगस्समं तेन यतो जवत्वम् ॥ २४।।

कक्ष्याविधान-ग्रहानयनविधिः सप्तमः ॥ Text of Ms. A : [21] होरेश्चरास्सप्त शनेश्चराधा यथाक्रमं शीघ्रजवाश्चतुर्थः । दितादिपस्सावनमासताथस्स्पात्सप्तमोव्दाधिपतिस्तृतीयः । [22] विधोर्यथोर्धं घुपतिस्तु पंचमो भवेच्च षष्टोव्दपतिस्तु सावनः अनंतरो मासपतिश्च सृप्तमो भवेच्च होराधिपतिर्यथाक्रमं ।॥ [23] अस्ये हि वृते गृहनागलिप्तास्वल्पा महत्पो महतीदरस्माद अल्येत कालेन लघु स्ववृत्तं म्रमप्पनल्पं महतार्कसूनुः । [24] प्राणेन लिप्ता भमुदेति पूर्वे मूजे परेस्तं व्रव्राते ग्रहश्चा स्वभुतिलिप्तायुतचक्रलिप्ताभोगस्समस्तेन यतो जवत्वं । कक्ष्याविधानग्रहानयनविधिस्सप्तमः । Ms. B : 24 d °स्सममेन