पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/77

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे


प्रोक्तवदवमानि हरेदितरस्मादिनगणोऽत्र दिन[प]श्च ।
चैत्रसिताद्यब्दपतिर्यथोत्क[व]द् वाऽब्दपसमीपात् ॥ ११३ ॥

[५. अहर्गणं विना सूर्याचन्द्रमसोः साधनम् ]

निजगुणहीनैर्हारैस्स्वावमशेषाद्दिनादि तद्युक्तात् ।
अधिशेषादभ्रगुण[ ३०]घ्राद्रसखखचन्द्रै[१००६]र्दिनादिफलम् ॥ ११४ ॥
मासदिने प्रथमयुति: पृथक्कु[1]विश्वा[१३]हता द्वितीयोना।
रविशीतगू गहाद्यौ बहुधा वा प्रोक्तवत्साध्यौ ॥ ११५ ॥

[६. चैत्राद्यहर्गणात् ग्रहसाधनम् ]

शुद्धयाहतभुक्तथूनः शुद्धयन्तगखेचरश्च शुद्धयादौ ।
अवमघटीफलयुक्तो द्युगणफलेन चेष्टदिनमध्यः ॥ ११६ ॥

[७. राश्यंशाधिपाः रोच्यमराः ]

प्रतिगृहमिनांशकानां क्रमशस्त्वधिपा भवन्ति रोच्यमराः ।
ब्रह्मा प्रजापतिद्यौः शस्त्रं तर्वन्नवासांसि ॥ ११७ ॥


Text of Ms. A :

[113] प्रोक्तवदवृमानि हरोदितरस्माद्दिनगणोत्र दिनश्च ।

चैत्रसिताद्यव्दयतेर्यथोक्तद्वाव्दपसमेपात्

[114] निजगुणहीनैर्हारैस्खावमशेषाद्दिनादितघुक्तात् ॥

अधिशेषोगगुणाघ्नाद्रसखस्वचंद्वैर्दिनादिफलं ।

[115] मासदिने प्रथमयुति: पृथक्कुविश्चाहता द्वितीयोना ।

रविशीतगू गृहाद्यौ वहुधा वा प्रोक्तवत्स्मध्यौ

[116] शुद्धपाहततुक्त्यू शुद्ध्पंतगखेचरश्च शुद्धपादौ

अवमघटीफलयुत्को द्यगणहलनेष्टदिनमध्प:

[117] प्रतिग्रहमिनांशकानां क्रमशस्त्वाधिपा भवंति रोच्पनराः

व्राह्म पा प्रजापतिद्यौंः शस्त्रतर्वन्नवासांसि

Ms. B; 113 c °द्यब्द 113 d °द्राब्दप° 114 b °स्स्वावम° 115 b पृथक्व° 115 d °वल्साध्पो