पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/76

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
५१
प्रत्यब्दादिशुद्धिविधिः



दिग्भिः [१०] शरा [५] महीजो भागा लिप्ताश्च नन्दशीतकराः [१९] ॥
बुधचल[म]मरा [३३] भागा विश्वे[१३] च कला दिनैर्नागैः [८] ॥ १०७ ॥
गुरुरेकांशो[१]ऽत्यष्टि[१७]रविभागैलिप्तिकाश्च रसपक्षाः [२६] ।
सितशीघ्रं जिन[२४]भागास्तिथि[१५]भिर्दहनाश्विनो [ २३] लिप्ताः ॥ १०८ ॥
नवविषयाः [५९] पातङ्गिलिप्ताः सूर्यांशकैर्गजाश्विमितैः [२८] ।
छित्वैवं गुणहारानिष्टखगात्साधयेद्रविं बहुधा ॥ १०९ ॥

[ ३. अवमपाततोऽधिमासपाततो वा गतदिवसाः]

प्रोक्तावमहारहतावमघटिका वासराः खरस[६०]लब्धाः ।
दिनगणितविशुद्धचा होना अवमविकलदिनानि चैत्रादौ ॥ ११० ॥
शोध्यं यदा न शु[द्धये)त् तदाऽवमाद्वारसंयुताच्छोध्यम्
षडगाङ्का[९७६]हतशुद्धिः खाग्नि[ ३०]हृदधिमासशेषशेषः स्यात् ॥ १११ ॥

[४. चैत्रादितोऽहर्गणः]

मध्वादितस्तिथिगणः पृथगध्यहयुग्रसागनन्द[९७६]हृतः ।
लब्धाधिमासदिवसैर्युतोऽपरः पृथगावस्थाप्य ॥ ११२ ॥


Text of Ms. A :

[107] दिग्भिः शरा महीजो भागा लिप्ताश्च नदशीतकराः

बुधचलमरा भागा विश्वे च कला दिनैर्नागाः ।

[108] गुरुरेकाशोत्पष्टारविभागैलिप्तिकाश्च रसपक्षाः ।

सितश्रीघ्रं जिनभागास्तिथिभिर्दहनाश्विनो लिप्ताः ।

[109] नवन्विषया यातंगिलिप्तास्सूर्यांशकैर्गजाश्चिपितै:

छित्वैवं गुणहारानिष्टखगात्साधयेद्रविं वहुधा ।

[110] प्रोकावमहाराहतावमघटिका वांसराः खरसलव्पः

जिनगुणितविशुद्ध्पा हीनास्त्पवमविकलानि चैत्रादौ ।

[111] शोध्यं यदा न शु तदावमाद्वारसयुताश्छोध्पं ।

षडगांकहतशुद्धिः खाग्निहृदधिमासशेषशेषस्स्पात्

[112] मध्वादितस्तिथिगणः पृथगव्पहयुग्रसागनंदहृतः"॥

लब्दाधिमासदिवसैयुतोपलः पृथगवस्छप्प

Ms. B : 109 a नवविषया पातं° 110 a °हारहता° 110 b °लब्यः 110 c°विशुद्धया 111 b°संयुता°