पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/52

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
२७
सर्वतोभद्रः



[रविदिनान्ते ग्रहज्ञानम्]

सौरदिनैर्वा गुणिता ग्रहभगणा भाजिता युगार्कदिनैः ।
भगणादिफलं द्युचरो दिनकरगतवासरस्यान्ते ॥ ५१ ॥

[सुरासुराकोंदयास्तकालिकग्रहज्ञानम्]

यातार्काब्दाभ्यस्ता द्युचरभसङ्घा युगार्कवर्षहृताः ।
मण्डलपूर्वः खचरः सुरासुराकोदयास्तसमये स्यात् ॥ ५२ ।

[गुरुवर्षमुखे ब्रह्मदिवसादी कल्पादौ कलियुगादौ च ग्रहाः]

गुरुगतवर्षेरेवं गुरुवर्षमुखे ग्रहाः कदिवसादौ ।
शीघ्रा मृदूच्चपाता ग्रहाश्च मीनाञ्जसन्धिस्थाः ॥ ५३ ॥
खकृत[४०]लब्धयुतभगणाः कल्पादौ ते गृहादि विश्वरसा:[६१३] ।
भगणघ्नाः खेभाम्बुधिकृता[४४८०]प्तलिप्तायुताः कलियुगादौ ॥ ५४ ॥

[त्रैराशिकगणितविधानं गुणहारयोरपवर्तनञ्च]

त्रैराशिकेन सर्वं ज्ञाताज्ज्ञेयं प्रसाधयेत् बहुधा ।
अपर्वातितैर्लघु स्याद् गुणहारैरेतदेव पूर्वोक्तम् ॥ ५५ ॥


Text of Ms. A :

[51] सौरदिनर्वा गुणिता ग्रहगणभाजिता युगार्कदिन: ।

भगणादिफलं द्युवरो दिनकरगतवासरस्पांते ॥

[52] याताव्दार्काभ्यस्ता द्युचरभसंघायुगार्कवष्टहृताः ।

मंडलपूर्व: खचरस्सुरासुराकौंदयास्तसमये स्पात् ।

[53] गुरुगतवर्षनवं गुरुवष्र्टमुखे ग्रहः कदिवसादौ ।

साध्या मृदूच्चपाता ग्रहाश्च मीनाजसंधिस्छाः ॥ ॥

[54] स्वखहूतलव्दयुतभगणाः कल्पादौ ते ग्रहादि विश्वरसा:

भगणघ्राः खेभाम्बुधिकृताप्तलिप्तायुताः कलियुगादौ ।

[55] त्रैराशिकेन सर्वं ज्ञाताज्ज्ञेयं प्रसाधयेद्वहुता

अपवतितैर्लघु स्याद् गुणहारैरेतदेव पूर्वोक्तम् ॥ ॥

Ms. B : 51 c द्युचरो 55 b °द्वहुना