पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/53

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

अन्योन्यभक्तशिष्ट्या तावपवत्यौ लघूं दृढकसंज्ञौ ॥

[कलियुगादौ ग्रहाणां क्षेपाः]

कल्यादाविन्दूच्चे त्रि[३]भं क्षिपेत् षङ्[६]गृहाणि शशिपाते ॥ ५६ ॥
द्वो [२] धृति[१८]रेकशरा[५१] नगरामाः [३७] क्षेप्या गृहादि रवितुङ्गे ।
वेदा[४] धियः[८] खबाणाः[५०] खशराः[५०] क्षेप्या गृहादि कुजमन्दे ॥ ५७ ॥
मुनयो[७]ऽष्टयो[१६] द्विवेदाः[४२] कृतेषवो[५४] भादि चन्द्रजस्योच्चे ।
विषया [५] द्विदृशो[२२]ऽष्टकृताः[४८] कुगुणा [३१] राश्यादि जीवोच्चे ॥ ५८ ॥
यमलौ [२] नखा[२०]स्त्रयो[३] रसयमला [२६] योज्याः सितस्य भाद्युच्चे ।
मुनयो[७]ऽक्षदृशो[२५]ऽङ्गशरा[५६] [स्त्रिशरा ५३] देया शनेगृहाद्युच्चे ॥ ५९ ॥
ककुभो [१० ] नखा [२०] दिशो[१०]ऽर्का[१२] राश्याद्यसृजः प्रयोजयेत्पाते ।
रुद्रा [११] दिशो[१०]ऽङ्कचन्द्राः[१९] कृतेषवो [५४] भादि बुधपाते ॥ ६० ॥
नव [९] ककुभो [१०] दश [१०] शक्रा [१४] गुरुपाते भादि संयोज्यम् ॥
दश [१०] खं [०] सप्ता[७]ऽत्यष्टिः [१७] सिप्तपाते देयमृक्षादि ॥ ६१ ॥


Text of Ms. A : [56] अन्योन्यभक्तशिष्ट्या तावपवत्यौ लघूं दृढकसंज्ञौ ॥

कल्पादविंदूच्चे त्रिभे क्षिपे षड्गृहाणि शशिपाते ।

[57] द्वी ध्रुतिरेकशरा नगरामा: क्षेप्पा ग्रहादि रवितुंगे।

वेदाधियः खवाणाः खशराः क्षेप्पा ग्रहादि कुजमंद ।

[58] मुनयोष्टयो द्विवेदाः कृतेषवो भादि चंद्रजस्योच्चे ।

विषया द्विदृशोष्टकृताः कुगुणा राश्यादि जीवोच्चे ।

[59] यमलौ नखास्त्रयो रसपमला योज्यास्मितस्य भाद्युच्चे ।

मुनयोक्षदिशोंगशरा देया शनेगृहायुच्चे ।

[60] ककुभो नखा दिशोर्का राश्यायसृज: प्रयोजयेत्पाते

रुद्रा दिशोंकचन्द्राः कृतेषवो मादि बुधपाते ॥ ॥

[61] चककृतो दशशक्रा गुरुपाते भादि संयोज्यं ।

दश खं संप्तत्पष्टिस्सितपाते देयमृक्षादि ॥ ॥