पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

सर्वधनं तत्तेषां भगणैक्यविभाजितं पृथ[ग्गु]णयेत् ।
[भ]गणैः स्वैः स्वधनानि त्विष्टैरिष्टस्य वा भवति ॥ ४६ ॥

पदस्वमिष्टसङ्गुणैर्धनैर्युतोनमुद्धृतं पृथक् पृथग् निजैर्गुणैर्युतिस्ततो विभाजिता ॥
पदप्रमाणरूपकैर्गुणोद्धृतैर्भुवन्युना[१] युतोनितैः पदं भवेत्ततोऽवशेषमानयेत् ॥ ४७ ॥

इच्छाहतोद्धृतानां ग्रहभगणानां युतिविशेषो वा ।
कुदिनान्वितो विहीनः शोध्यग्रहपर्ययैः कुदिनभक्तः ॥ ४८ ॥
शेषवियुग् [युक्कुदि]नात् स्वमृणं चेदन्यपर्ययैर्लब्धम् ॥
इष्टभगणैर्युतोनात् कुदिनहृतात् स्युरन्यभगणास्ते ॥ ४९ ॥

[चन्द्रदिनान्ते ग्रहज्ञानम्]

गतचन्द्रवासराघ्ना ग्रहभगणा युगशशाङ्कदिनभक्ताः ।
भगणादिद्युचरः स्याद्रजनीकरवासरावधिकः ॥ ५० ॥


Text of Ms. A :

[46] त्सर्वधनं तत्तेषां भगणैक्यविभाजितं पृथ * णयेत्

गणै: स्वैस्खयनानित्विष्टैरिष्टस्य वा भवति ।

[47] पदस्वमिष्टसंगुणैर्यनैद्युतोनमुद्धृतं ॥ पृथुक्पृथं निजैर्गुणैर्युतिस्ततो विभाजिता ।

पदप्रमाणरूपकैर्गुणौदृतैर्भुवायुतं । युतोनितैः पदं भवेत्ततो विशेषमानयेत् ॥ ॥

[48] इच्छाहतोदृतानां ग्रहभगणानां युधि विसेषो वा

कुदिनान्वितो विहानः शोध्यग्रहपर्ययैः कुदिनभक्तः ॥

[49] शेषविघुग्मात्स्वमृणं वेदन्पयर्घृयैर्लब्दं ।

इष्टभगणैर्युतोना इष्टघ्रहृतास्स्युरन्यभगणोस्ते ॥ ॥

[50] गतचन्द्रवासरघ्ना ग्रहभगणयुगशशांकदिनविभत्काः

भगणादिद्युचरस्पाद्रजनीकरवासरावधिकः ॥ ॥

Ms. B : 46 c °स्स्वयना°