पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/50

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
२५
सर्वतोभद्रः



[प्रकीर्णविधयः]

[मन्दशीघ्रग्रहयोर्युगोदयानयनम्]

निजभगणोदययोगो भावर्तास्तद्द्वियोगभगणोनैः ॥
युक्तैरितराभ्युदयाः मन्दगशीघ्र[ग]ग्रहाभ्युदयैः ॥ ४१ ॥

[ग्रहसावनदिनगतिः।]

चक्रकलाघ्ना भगणा द्युभिरुदयैर्यस्य भाजितास्तस्य ।
एकदिनावच्छिन्ना [गतिर्ग्रहस्यो]दयावधिका ॥ ४२ ॥

[ज्ञातग्रहादभीष्टग्रहानयने प्रकारान्तरम्]

अन्यग्रहभगणगुणा इष्टग्रहमण्डलोद्धृताः क्ष्माहाः ।
हारोऽन्यगुणाभ्यस्ताद् द्युगणादिष्टग्रहो भवति ॥ ४३ ॥

[ग्रहानयने विधिविशेषाः]

द्वयोर्बहूनामथवा यथेच्छया हतोद्धृतानां युतिमन्तरं तथा ।
सपर्ययाणां हतमिष्टपर्ययैर्ग्रहस्तथाभूतभसङ्घभाजितम् ॥ ४४ ॥

द्व्यादीनामिष्टं तैः पृथगिच्छाघ्नैर्युतोनितं वैक्यम् ।
इष्टाहतियुतोनया द्व्यादिग्रहसंख्यया भक्तम् ॥ ४५ ॥


Text of Ms. A :

[41] निजभगणोदययोगो भावतस्तिद्वियोगभगणोनै: ।

घुकैरितराभ्युदया मंदरुशीघ्रयहाभ्युदयैः ।

[42] चक्रकलाघ्ना गभणा द्युभिरुदयौर्यस्य भाजितास्तस्य

एकदिनावश्छित्रां यश्चैकोदयावयिकाः

[43] अन्यग्रहभगणगुणा इष्टग्रहमंडलोद्धृताः क्वाहा:

हारोन्पगुणाभ्यस्ता द्युगणादिष्टग्रहो भवति ॥ ॥

[44] द्वयोर्बहूनामथवा यथेश्छया हतोद्धृतानां घुतिरंतरं तथा

सपर्यपाणा हतमिष्टपर्पयैर्त्रहस्तथाभूतभमंगभाजिता ।

[45] द्व यादोनामिष्टतै: पृथगिश्छाघ्नैयुतोनित वैक्यं ।

इष्टाभिहतयोनितया द्वयादिग्रहसंख्पपा भक्तं

Ms. B: 41 d °शिघ्रपहा° 42 c° श्छिन्ना