पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/343

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० वटेश्वरगोले [ अध्यायः 4 [भानामुदयास्तमयवासना]

तेऽभ्युदयन्त्युदगायतमूर्त्या येऽस्तमयन्त्यपरायतदेहाः ॥ प्रागपरायतवृत्त्युदयानामस्तमयो ह्युदगायतकानाम् ॥ १४ ॥'

स्वचरार्धोनसंयुताः प्राक्कुजे ये समुदयन्ति तेऽपरे ॥ तेन युतोनात् क्रमात् पुनर्भूमिजेऽस्तमुपयान्ति राशयः ॥ १५ ॥° [भानां दृश्यादृश्यवासना]

लङ्कोदयो यस्य चरार्धतुल्यो राशिस्स तस्मिन्नियमेन दृश्यः ॥* तुल्योऽपभागात् सततोदितस्य गृहस्य दृश्यो न स राशिरस्मिन् ॥ १६ ॥*

यस्मिन् पलाशा रसकोश[६६]तुल्या न तत्र दृश्यो मकरो धनुश्च । पले शरागांश[७५°]मिते ह्यदृश्याः कुम्भालिसप्ताङ्गमृगाः सदैव ॥ १७ ॥' क्रान्त्यंशघ्रं वृत्तमुर्व्या विभक्तं भांशराप्तं खेचराभ्युद्गमः स्यात् ॥ याम्ये सौम्ये योजनैर्याम्यसौम्यैः भान्ते भान्ताभ्युद्गमो भूजवृत्ते ॥ १८ ॥° Text of Ms. A : [14] तेभ्पुदयान्त्पुदगायतमूर्त्या येस्तमयान्त्पपरायतदेहाः प्रागुदगायतवृत्त्पुदयानामस्तमयोहृद्यदगायतकानाम् ।

[15] ये स्ववाधीनसंयुताः । प्रात्कुजे समुदयन्ति ते यरे

तोन युतोनात्क्रमात्पुनर्भूमिजेस्तमुपयान्ति राशयः ।

[16] लङकोदयो यस्प चरार्धतुल्पो राशिस्स तस्मिन्नियमेन दृश्पः तुल्पोयमार्गात्सततोदितस्प गृहस्प दृश्पो न स राशिरस्मिन्
[17] मस्मित्पलाशा रसकोशतुल्पा न तत्र दृश्पो मकरो धनुश्च ।

पले शरागiशमितेह्यदृश्पाः कुभ्मालिसप्ताङ्गमृगास्सदैव

[18] क्रान्त्पंशघ्रं वृत्तमुर्व्पा विभक्तं भासैराप्तं स्वेचराभ्युद्गमस्स्पात्

याम्पस्सौम्पे योजनैर्याम्पसौम्पैः मान्ते भान्ताम्युद्गमो भुजे वृत्ते । 1 Cf. LG, iii. 17. 2. Cf: LG, iii. 18. 3. Cf. LG, iii. 19. 4. Cf. LG, iii. 21. 5. Cf. LG, iii. 20. 6. Cf: LG, iii. 22.