पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/33

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ गुर्वब्दाः व्यतिपाताश्च ]

गुरुभगणार्क[१२]बधोऽब्दगणः स्यात् त्रिदशगुरोविजयाश्विनपूर्वः ।
द्वि (२]गुणितपर्ययसंयुतिरुक्ता दिनकरचन्द्रमसोर्व्यतिपाता: ।। ५ ।

[ उत्सर्पिणी-अपसर्पिणी-सुषमा-दुष्षमाः ।]

उत्सपिणी प्रथममेव युगार्धमुत्त' ज्ञेयं द्वितीयमपसपिणिकाभिधानम् ॥
मध्ये युगस्य सुषमा खलु दुष्षमा स्यादाद्यन्तयोः कुमुदिनीवनबन्धुतुङ्गात् ॥ ६ ॥

[ कल्पे ब्रह्मायुषि च भगणादयः ।]

यद्द्युगोत्थमिह पर्ययादिकं तद्गजाभ्रगगनेन्दु[१००८]ताडितम् ॥
कल्पजं खखनखग्रहा[७२०००lहतं तद् भवेत्। कमलविष्टरायुषि। ७ ॥

[ कालप्रवृत्तिः ]

त्रुट्या[दि]पद्मोद्भवजीवितान्तः काल: समं तेन झषाजसन्धौ।
लङ्काकुजस्थद्युचरैः प्रवृत्तः शनेर्दिने चैत्रसितादितोऽयम् ॥ ८ ॥


Text of Ms. A :

[5] गुरुभगणार्कवधोब्दगणस्स्पात्त्रिदशगुरोर्विजयाश्चिनपूर्वा:

द्विगुणितपर्ययसंयुतिरुक्ता दिनकरचंद्रमसोर्थनिपाताः ॥ १७ ॥

[6] उत्सर्पिणी प्रथममेव युगावमुक्त ज्ञेयं द्वितीयमपसर्पिणिकाभियानं ।

मध्ये युगस्य सुषमा खलु दुष्पमा स्पादाद्यंतयोः कुमुदिनीवनवंयुठंगात् ।। १८ ॥

[7] यद्युगोत्थमिह पर्ययादिकं तद्गजाभ्रगगनैन्दुताडितं ।

कल्पज खखनखग्रहाहतं तद्भवेर्कमलविष्टरायुषि ॥ १६ ॥

[8] तुद्यापद्मोद्भवजीवितांतः कालस्समं तेन जषांन्तसंधौ

लकाकुजस्छघुचरैः प्रवृत्तः शनैर्दिनञ्चैत्रसितादितोयं ॥ २१ ॥

Ms. B : 5 d °तिपाताः 8 d शनैर्दिनं