पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/32

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2. मानविवेकः

[ भोदयाः ग्रहोदयाः सावनदिनानि च ]

जलधररसपञ्चक्ष्माभृद[ग्नि]द्विपक्षद्विघनशरशशाङ्का[१५८२२३७५६० ] भोदयाः स्युर्युगेऽमं ।
निजभगणविहीनाः खेचरस्योदयाः प्राक् दिनकृदुदयराशिः सावनो भूदिनाख्यः ॥ १ ॥

[ शशाङ्कमासाः, रविवर्षाणि नाक्षत्रदिनानि च ]

भगणविवरशिष्टा ये द्वयोस्ते द्वियोगा रविशशियुतयो यास्ते शशाङ्कस्य मासाः ।
दिनकरभगणा ये तानि वर्षाणि भानोरुडुदिननिकरः स्याद् भोदयाः प्राक् प्रदिष्टाः ॥ २ ॥

[ उच्चनीचपरिवर्ताः अधिमासाश्च ]

स्वग्रहोच्चभगणान्तरं जगुः स्वोच्चनीचपरिवर्तसंज्ञकम् ।
मासराशिविवरं शशीनयोर्यत्तदुत्तमधिमाससंज्ञकम् ॥ ३ ॥

[ तिथिक्षयाः पितृसुरासुराणां दिवसाश्च ]

क्षितिशशिनोर्दिवसान्तरमा(हु]स्तिथिविलयं नृसमां रविवर्षम् ।
पितृदिवसं वि[धु]मासमिनाब्दं दितितनयामरवासरसंज्ञम् ॥ ४ ॥


Text of Ms. A :

[1] जलधररसपंचक्ष्माभूदद्विपक्षद्विवनशरशशांका भोदयास्स्युर्गेमी ।

निजभगणविहीनाः स्वेवरस्पोदयाः प्राग्दिनकृदुदपराशिस्सावनो भूदिनाख्यः ॥ ॥

[2] भगणविवरशिष्टा ये द्वयोस्तद्वियोगा रविशशियुनवो यास्ते शशांकस्पस मासाः ॥ ॥

दिनकरभगणा ये भानि वर्षाणि भानोट्रतुदिननिकरस्स्थाद्भोदयाः प्राक्प्रदिष्टाः

[3] स्वगृहोच्चभगणांतरं जगुस्खोच्चनीचपरिवर्तसंज्ञकं ।

मासराशिविवरांशशीनयोर्यत्तदुक्तमयिमासका युगे ॥ ॥

[4] क्षितिशशिनोदिवसांतरमा*स्तिथिनिलया तृसमारविवर्षं

पितृटितसंविमासमिनाव्टं दितितनयामरवासरसंज्ञं ॥ १६ ॥

Ms. B : 4 b न्नृसमा०