पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/34

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः २]
मानविवेकः



[ कालस्य नव मानानि ]

आर्क्ष-चान्द्रमस-सौर-सावन-ब्राह्म-जैव-पितृ-देव-दैत्यजैः ॥
काल एभिरनुमीयतेऽव्ययो येन माननवकव्यवस्थितिः ॥ ९ ॥

[ माननवकस्य प्रयोजनानि ]

पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात् ।
प्रभवाद्यब्दाः षष्टि[६०]र्युगानि नारायणादीनि ॥ १० ॥
आङ्गिरसादेतेषां ज्ञप्तिः पैत्र्याच्च पैतृको यज्ञः ।
कामलजासुरदैवैस्तेषामायुःपरिक्लृप्तिः ॥ ११ ॥
अध्ययननियमसूतकमखगतयः [ तपः] चिकित्सा च ।
होरामुहूर्तयामाः प्रायश्चित्तोपवासाश्च ॥ १२ ॥
आयुर्दायश्च नृणां गमनागमने च सावनान्मानात् ।
ऋत्वयनविषुवदब्दा युगं क्षयर्द्धीं दिनस्य सौरात्स्युः ॥ १३ ॥



Text of Ms. A :

[9] आर्क्षचांद्रमससौरसावनब्राह्मजैवपितृदेवदैत्यजैः

काल एभिरनुमीपतेव्पयो । भेन मानभवकस्पवापः

[10] पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात्

प्रभवात्पब्दाष्पष्टियुगानि नारायणादीनि ॥ २२ ।।

[11] आंगिरसादेतेषां ज्ञप्तिः पित्र्याश्च पैतृको यज्ञः ।

कमलजासुरदेवैस्तेषामायुः परिश्छितिः ।

[12] अध्ययनतियमसूतकमखगतयः । चिकित्सा च

हारा मुहर्तयामाः प्रायाश्चित्तोपवासाश्च ॥ २३ ।।

[13] आयुर्दायश्चतृणां गमनागमने च सावनान्मानात् ॥

ऋत्वयनविषुवदव्दाघुगक्षयद्धीं दिनस्य सौरात्स्युः ॥ २४ ॥

Ms. B: 12b Stop (1) missing 13a °नृणां 13 c °दब्दा०