पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/326

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



श्रीवटेश्वरविरचितं

गोलम्

1. गोलप्रशंसा

(उपोद्घातः)

मध्याद्यशेषां ग्रहदिव्यचेष्टां गोलं विना सम्यगवैति नो ना ।

यस्मादतोऽभीष्टपदार्थवृत्त्या गोलप्रबन्धं विधिवद् विधास्ये॥ १ ॥

[गोलप्रशंसा]

वक्षो विवक्षोरुहमङ्गनानां निशीथिनी नैव विना निशेशम्।

पयोगुडाज्यानि विहाय भोज्यं तन्त्र च गोलेन विना न किञ्चित् ॥२।।

धिग्वादिनं व्याकरणानभिज्ञं भिषग्वरं कर्मसु मुग्धबुद्धिम्।

यज्वानमुच्चैरनधीतवेदं मौहूर्तिकं चादृतगोलखेदम् ॥ ३ ॥

संख्यानवित् सम्यगवैति गोलं गोलार्थवित् खेचरचेष्टितज्ञः।

संख्यानगोलस्थमतिर्न योऽसौ न वेत्ति चेष्टां द्युसदां कथञ्चित् ॥ ४ ॥*


Text of Ms. A :

[1] मध्पाद्यशेषो ग्रहदिव्पचेष्टां गोलं विना सम्पगयैति नो ना

यस्मादतोक्तिष्टपदार्गवृत्त्पा गोलप्रवन्द्य बिधिवद्विधास्पे ।

[2] वक्षोरिवक्षोरुहमङ्गनानां निशीथिनी नैव विना निशास्पाम् ।

ययोगुडाज्पानि विहाय भोज्पं। तन्त्र च गोलेन विना न किमित् ।

[3] धिग्वादिन व्याकरणानभिज्ञं भिषग्वरं कर्मसु मुग्वबुद्धिम्

पज्वानमुश्चैरनधीतवैदं मौहुर्तिकं चाह्रतगोलखेदम् ।

[4] संख्पानवित्सम्पगवैति गोलं गोलाथवित्खेचरचेष्टितज्ञः

संख्पानर्गोंलस्तमतिर्न योसौ नवत्रि चेष्टा द्युसदां कथंवेत् ।


1. Cf. LG (= Lallaʼs Gola), i. 2. 2. Cf. LG, i. 3. 3. Cf. BrSpSi (= Brahma-sphuta-siddhanta), xxii. 3; LG, i. 4.